Go To Mantra
Viewed 82 times

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑। यद्ग॒व्यन्ता॒ द्वा जना॒ स्वर्यन्ता॑ स॒मूह॑सि। आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥

Mantra Audio
Pad Path

वि । त्वा । ततस्रे । मिथुना: । अवस्यव: । व्रजस्य । साता । गव्यस्य । नि:ऽसृज: । सक्षन्त । इन्द्र । नि:ऽसृज ॥ यत् । गव्यन्ता । द्वा । जना । स्व: । यन्ता । सम्ऽऊहसि ॥ आवि: । करिक्रत् । वृषणम् । सचाऽभुवम् । वज्रम् । इन्द्र । सचाऽभुवम् ॥७२.२॥

Atharvaveda » Kand:20» Sukta:72» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की उपासना का उपदेश।

Word-Meaning: - (इन्द्र !) हे इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] (व्रजस्य) मार्ग के (साता) पाने में (अवस्यवः) रक्षा चाहनेवाले (सक्षन्तः) गतिशील, (गव्यस्य) भूमि के लिये हित के (निःसृजः) नित्य उत्पन्न करनेवाले और (निःसृजः) निरन्तर देनेवाले (मिथुनाः) स्त्री-पुरुषों के समूहों ने (त्वा) तुझको [तेरे गुणों को] (वि) विविध प्रकार (ततस्रे) फैलाया है। (यत्) क्योंकि, (इन्द्र) हे इन्द्र ! [परमात्मन्] (वृषणम्) बलवान्, (सचाभुवम्) नित्य मेल से रहनेवाले, (सचाभुवम्) सेचन [वृद्धि] के साथ वर्तमान (वज्रम्) वज्र [दण्डगुण] को (आविः करिक्रत्) प्रकट करता हुआ तू (गव्यन्ता) वाणी [विद्या] को चाहनेवाले, (स्वः) सुख को (यन्ता) प्राप्त होनेवाले (द्वा) दोनों (जना) जनों [स्त्री-पुरुषों] को (समूहसि) यथावत् चेताता है ॥२॥
Connotation: - जो स्त्री-पुरुष सबके सुख के लिये राज्य आदि प्राप्त करके शिष्टसुखदायक, दुष्टविनाशक परमात्मा की भक्ति करते हैं, उनको यह जगदीश्वर उन्नति के लिये सदा उत्साह देता है ॥२॥
Footnote: यह मन्त्र आगे है-अथ० २०।७।१ ॥ २−(वि) विविधम् (त्वा) त्वाम्। तव गुणम् (ततस्रे) तसु उपक्षये उत्क्षेपे च-लिट्। इरयो रे। पा० ६।४।७६। इति रेभावः। उत्क्षिप्तवन्तः। विस्तारितवन्तः (मिथुनाः) स्त्रीपुरुषसमूहाः (अवस्यवः) अ० २०।१४।१। रक्षाकामाः (व्रजस्य) व्रज गतौ+घञर्थे क। मार्गस्य (साता) विभक्तेर्डा। सातौ। लाभे (गव्यस्य) गवे पृथिव्यै हितस्य (निःसृजः) सृज विसर्गे-क्विप्। नितरां स्रष्टारो निष्पादयितारः (सक्षन्तः) सक्षतिर्गतिकर्मा-निघ० २।१४। नैरुक्तो धातुः-शतृ। गच्छन्तः (इन्द्र) परमात्मन् (निःसृजः) निरन्तरदातारः (यत्) यतः (गव्यन्ता) गो-क्यच्, शतृ। गां वाणीं विद्यामिच्छन्तौ (द्वा) द्वौ (जना) जनौ। स्त्रीपुरुषौ (स्वः) मुखम् (यन्ता) यन्तौ। प्राप्नुवन्तौ (समूहसि) ऊह वितर्के”। सम्यक् चेतयसि (आविः) प्राकट्ये (करिक्रत्) करोतेर्यङ्लुकि शतृ। भृशं कुर्वन् (वृषणम्) बलवन्तम् (सचाभुवम्) षच समवाये सेचने च-क्विप्+भू सत्तायाम्-क्विप्। समवायेन वर्तमानम् (वज्रम्) दण्डगुणम् (इन्द्र) परमात्मन् (सचाभुवम्) सेचनेन वर्धनेन सह वर्तमानम् ॥