Go To Mantra
Viewed 98 times

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

Mantra Audio
Pad Path

यम् । ऊं इति । पूर्वम् । अहुवे । तम । इदम् । हुवे । स: । इत् । ऊं इति । हव्य: । ददि: । य: । नाम । पत्यते ॥ अध्वर्युभि: । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविण:ऽद: । पिब । ऋतुऽभि: ॥६७.७॥

Atharvaveda » Kand:20» Sukta:67» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (यम्) जिस [पराक्रमी] को (उ) ही (पूर्वम्) पहिले (अहुवे) मैंने ग्रहण किया था, (तम्) उस [पुरुष] को (इदम्) अब (हुवे) मैं ग्रहण करता हूँ, (सः इत्) वही (उ) निश्चय करके (हव्यः) ग्रहण करने योग्य है, (यः) जो (ददिः) दाता (नाम) नाम [होकर] (पत्यते) स्वामी होता है। (द्रविणोदः) हे धन देनेवाले (पोत्रात्) पवित्र व्यवहार से (अध्वर्युभिः) हिंसा न चाहनेवाले पुरुषों करके (प्रस्थितम्) उपस्थित किये हुए (सोम्यम्) ऐश्वर्य के लिये हितकारी (मधु) निश्चित ज्ञान को और (सोमम्) सोम [तत्त्वरस] को (ऋतुभिः) ऋतुओं के साथ (पिब) तू पी ॥७॥
Connotation: - विद्वान् पुरुष सुपरीक्षित गुणी पराक्रमी मनुष्य को सदा उत्तम व्यवहारों के लिये नियुक्त करें ॥७॥
Footnote: ७−(यम्) पराक्रमिणम् (उ) एव (पूर्वम्) पूर्वकाले (अहुवे) हु दानादानयोः-लङ् शपः लुक्। गृहीतवानस्मि (तम्) (इदम्) इदानीम् (हुवे) हु दानादानयोः। गृह्णासि (सः) (इत्) एव (उ) निश्चयेन (हव्यः) ग्रहीतुमर्हः (ददिः) दाता (यः) पुरुषः (नाम) प्रसिद्धौ (पत्यते) ईष्टे (अध्वर्युभिः) हिंसामनिच्छुभिः पुरुषैः (प्रस्थितम्) उपस्थितम् (सोम्यम्) ऐश्वर्याय हितम् (मधु) निश्चितज्ञानम् (पोत्रात्) पवित्रव्यवहारात् (सोमम्) तत्त्वरसम् (द्रविणोदः) अ० २०।२।४। हे धनप्रद (पिब) अनुभव (ऋतुभिः) ॥