Go To Mantra
Viewed 86 times

मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः। यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम्। अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥

Mantra Audio
Pad Path

मो इति । सु । व: । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । आ । उत । जारिषु: । अस्मत् । पुरा । उत । जारिषु: ॥ यत् । व: । चित्रम् । युगेऽयुगे । नव्यम् । घोषात् । अमर्त्यम् ॥ अस्मासु । तत् । मरुत: । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥६७.२॥

Atharvaveda » Kand:20» Sukta:67» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (मरुतः) हे शत्रुओं के मारनेवाले वीरो ! (अस्मत्) हम पर से (वः) तुम्हारे (तानि) वे (सना) सनातन [वा सेवनीय] (पौंस्या) मनुष्य कर्म [वा बल] (मो षु अभि भूवन्) कभी भी न हट जावें, (उत) और [तुम्हारे] (द्युम्नानि) चमकते हुए यश वा धन (मा जारिषुः) कभी न घटें, (उत) और (अस्मत्) हमसे (पुरा) आगे को (जारिषुः) बड़ाई योग्य होवें। और (यत्) जो (वः) तुम्हारा (चित्रम्) विचित्र [अद्भुत] कर्म (युगे युगे) युग-युग में [समय-समय पर] (घोषात्) घोषणा देने से (नव्यम्) स्तुतियोग्य [वा नवीन] और (अमर्त्यम्) मनुष्यों में दुर्लभ है, (च) और (यत्) जो कुछ (दुस्तरम्) पाने में कठिन (च) और (यत्) जो कुछ (दुस्तरम्) पाने में कठिन है, (तत्) उसको (अस्मासु) हममें (दिधृत) धारण करो ॥२॥
Connotation: - मनुष्यों को सदा आपस में मिलकर बल यश और धन बढ़ाने का प्रयत्न करना चाहिये ॥२॥
Footnote: यह मन्त्र ऋग्वेद में है-१।१३९।८ ॥ २−(मो) नैव (सु) सुष्ठु (वः) युष्माकम् (अस्मत्) अस्मत्तः (अभि) अभिभवे (तानि) प्रसिद्धानि (पौंस्या) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ।१।१२४। पुंस्-ष्यञ्, ब्राह्मणादेराकृतिगणत्वात्। पुंसां कर्माणि। बलानि-निघ० २।९। (सना) सनातनानि। सेवनीयानि (भूवन्) अडभावः। अभूवन्। भवन्तु (द्युम्नानि) अ० ६।३।३। द्योतमानानि यशांसि धनानि वा (मा) निषेधे (उत) अपि (जारिषुः) जॄ वयोहानौ, अडभावः। अजारिषुः जरन्तु। जीर्णानि क्षीणानि भवन्तु (अस्मत्) अस्माकं सकाशात् (पुरा) अग्रकाले (उत) (जारिषुः) जॄ स्तुतौ। स्तुत्यानि भवन्तु (यत्) कर्म (वः) युष्माकम् (चित्रम्) अद्भुतम् (युगे युगे) समये समये। सर्वदा (नव्यम्) स्तुत्यम्। नूतनम्-निघ० ३।१८। (घोषात्) घुषिर्, शब्दे घञ्। घोषणायाः। व्यापनार्थमुच्चैः शब्दकारणात् (अमर्त्यम्) अमरणधर्मकम्। मर्त्येषु दुर्लभम्। नाशरहितम् (अस्मासु) (तत्) (मरुतः) हे शत्रुनाशका वीराः (यत्) यत् किञ्चित् (च) (दुस्तरम्) दुःखेन तरितुं प्राप्तुं योग्यम् (दिधृत) शपः श्लुः, अभ्यासस्य इत्त्वं च छान्दसम्, सांहितिको दीर्घः। धरत्। स्थापयत (यत्) (च) (दुस्तरम्) ॥