Go To Mantra
Viewed 81 times

आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्। ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

Mantra Audio
Pad Path

आदित्यै: । इन्द्र: । सऽगण: । मरुत्ऽभि: । अस्माकम् । भूतु । अविता । तनूनाम् ॥ हत्वाय । देवा: । असुरान् । यत् । आयन् । देवा: । देवऽत्वम् । अभिऽरक्षमाणा: ॥६३.२॥

Atharvaveda » Kand:20» Sukta:63» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

१-६ राजा और प्रजा के धर्म का उपदेश।

Word-Meaning: - (सगणः) गणों [सुभट वीरों] के साथ वर्तमान (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला सभापति] (आदित्यैः) अखण्ड व्रतधारी (मरुद्भिः) शूर मनुष्यों के साथ (अस्माकम्) हमारे (तनूनाम्) शरीरों का (अविता) रक्षक (भूतु) होवे। (यत्) क्योंकि (असुरान्) असुरों [दुराचारियों] को (हत्वाय) मारकर (देवाः) विजय चाहनेवाले, (अभिरक्षमाणाः) सब ओर से रक्षा करते हुए (देवाः) विद्वानों ने (देवत्वम्) देवतापन [उत्तमपद] (आयन्) पाया है ॥२॥
Connotation: - जो मनुष्य शूरवीर विद्वानों के साथ प्रजा की रक्षा कर सके, वही अपने उत्तम कर्मों के कारण उत्तमपद सभापतित्व आदि के योग्य होवे ॥२॥
Footnote: २−(आदित्यैः) अखण्डव्रतिभिः (इन्द्रः) परमैश्वर्यवान्, सभापतिः (सगणः) गणैः सुभटवीरैः सह वर्तमानः (मरुद्भिः) शूरमनुष्यैः (अस्माकम्) (भूतु) भवतु (अविता) रक्षकः (तनूनाम्) शरीराणाम् (हत्वाय) क्त्वाल्यपोः प्रयोगश्छान्दसः। हत्वा। नाशयित्वा (देवाः) विजिगीषवः (असुरान्) सुरविरोधिनः। दुराचारिणः पुरुषान् (यत्) यतः (आयन्) इण् गतौ-लङ्। अगच्छन्। प्राप्नुवन् (देवाः) विद्वांसः (देवत्वम्) दिव्यपदम् (अभिरक्षमाणाः) सर्वतो रक्षन्तः ॥