ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑। सु॑दी॒तयो॑ वो अ॒द्रुहो॑ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
Pad Path
नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्रा: । अभिऽस्वरा ॥ सुऽदीतय:। व: । अद्रुह: । अपि । कर्णे । तरस्विन: । सम् । ऋक्वऽभि: ॥५४.३॥
Atharvaveda » Kand:20» Sukta:54» Paryayah:0» Mantra:3
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
राजा और प्रजा के धर्म का उपदेश।
Word-Meaning: - [हे मनुष्यो !] (विप्राः) बुद्धिमान् (सुदीतयः) बहुत प्रकाशवाले, (अद्रुहः) द्रोह न करनेवाले, (तरस्विनः) बड़े उत्साहवाले पुरुष (वः) तुम्हारे लिये (कर्णे) कान में (अपि) ही (अभिस्वरा) सब प्रकार से वाणी के साथ (ऋक्वभिः) स्तुतिवाले कर्मों द्वारा (नेमिम्) नेता (मेषम्) सुख से सींचनेवाले [वीर] को (चक्षसा) दर्शन के साथ (सम्) मिलकर (नमन्ति) झुकते हैं ॥३॥
Connotation: - उत्साही बुद्धिमान् लोग प्रजा के सुख के लिये राजा को सुन्दर नियमों और सत्कार के साथ धर्मपथ का निवेदन करें ॥३॥
Footnote: ३−(नेमिम्) नियो मिः। उ० ४।४३। णीञ् प्रापणे-मि। नेतारम् (नमन्ति) नमस्कुर्वन्ति (चक्षसा) दर्शनेन (मेषम्) मिष सेचने-अच्। सुखस्य सेक्तारम् (विप्राः) मेधाविनः (अभिस्वरा) स्वृ शब्दोपतापयोः-विट्। अभिस्वरेण। सर्वतः शब्देन (सुदीतयः) पलोपः। शोभनदीप्तयः (वः) युष्मभ्यम् (अद्रुहः) अद्रोग्धारः (अपि) (कर्णे) श्रोत्रे (तरस्विनः) उत्साहिनः (सम्) संगत्य (ऋक्वभिः) अ० १८।१।४७। ऋच स्तुतौ-क्विप्, मत्वर्थे-वनिप्। स्तुतिमद्भिः कर्मभिः ॥