Go To Mantra
Viewed 85 times

ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यञ्चो॒ दद॑तो म॒घानि॑। तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥

Mantra Audio
Pad Path

एते । स्तोमा: । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्च: । ददत: । मघानि ॥ तेषाम् । इन्द्र । वृत्रऽहत्ये । शिव: । भू: । सखा । च । शूर: । अविता । च । नृणाम् ॥३७.१०॥

Atharvaveda » Kand:20» Sukta:37» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के धर्म का उपदेश।

Word-Meaning: - (नराम्) नरों के बीच (नृतम) हे बड़े नर ! [नेता] (एते) यह (अस्मद्र्यञ्चः) हमको मिलनेवाले (स्तोमाः) प्रशंसनीय विद्वान् लोग (तुभ्यम्) तेरे लिये (मघानि) धनों को (ददतः) देते हुए हैं। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन् !] (वृत्रहत्ये) शत्रुओं के मारनेवाले संग्राम में (तेषाम्) उन (नृणाम्) नरों का (शिवः) मङ्गलकारी (सखा) मित्र (च च) और (शूरः) शूर (अविता) रक्षक (भूः) तू हो ॥१०॥
Connotation: - राजा विद्वानों द्वारा धन आदि बढ़ाकर शत्रुओं का नाश करके प्रजा की रक्षा करे ॥१०॥
Footnote: १०−(एते) (स्तोमाः) प्रशंसनीयाः पुरुषाः (नराम्) नॄ नये-विट्। नेतॄणां मध्ये (नृतम) नयतेर्डिच्च। उ०२।१००। णीञ् प्रापणे-ऋप्रत्ययो-डित्, तमप्। हे अतिशयेन नायक (तुभ्यम्) (अस्मद्र्यञ्चः) अस्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा०६।३।९२। अस्मद्-शब्दस्य टेरद्रि। अस्मान् अञ्चन्तः प्राप्नुवन्तः (ददतः) प्रयच्छन्तः सन्ति (मघानि) धनानि (तेषाम्) हे परमैश्वर्यवन् राजन् (वृत्रहत्ये) वृत्राणां शत्रूणां हत्या हननं यस्मिंस्तस्मिन्, सङ्ग्रामे (शिवः) मङ्गलकारी (भूः) अभूः। भव (सखा) सुहृत् (च) (शूरः) निर्भयः (अविता) रक्षकः (सृ) (नृणाम्) नेतॄणाम् ॥