Go To Mantra
Viewed 91 times

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

Mantra Audio
Pad Path

य: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥

Atharvaveda » Kand:20» Sukta:36» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (तम्) उस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (आभिः) इन (गीर्भिः) वाणियों से (अभि) सब प्रकार (अर्चे) मैं पूजता हूँ। (यः) जो (एकः) अकेला (इत्) ही (चर्षणीनाम्) मनुष्यों के बीच (हव्यः) ग्रहण करने योग्य है और (यः) जो (वृषभः) श्रेष्ठ, (वृष्ण्यावान्) पराक्रमवाला, (सत्यः) सच्चा, (सत्वा) वीर, (पुरुमायः) बहुत बुद्धिवाला और (सहस्वान्) महाबलवान् (पत्यते) स्वामी है ॥१॥
Connotation: - सब मनुष्यों को सर्वशक्तिमान्, महापराक्रमी जगदीश्वर की उपासना करके श्रेष्ठ गुणी होना चाहिये ॥१॥
Footnote: यह सूक्त ऋग्वेद में है-६।२२।१-११॥१−(यः) परमेश्वरः (एकः) अद्वितीयः (इत्) एव (हव्यः) हु आदाने-यत्। ग्राह्यः (चर्षणीनाम्) मनुष्याणां मध्ये (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (तम्) (गीर्भिः) वाग्भिः। स्तुतिभिः (अभि) सर्वतः (अर्चे) पूजयामि (आभिः) (यः) (पत्यते) यद्वृत्तान्नित्यम्। पा०८।१।६६। इति निघातप्रतिषेधः। ईष्टे। स्वामी भवति (वृषभः) श्रेष्ठः (वृष्ण्यवान्) अ०४।४।४। वृषन्-यत्, मतुप्। पराक्रमयुक्तः (सत्यः) यथार्थस्वभावः (सत्वा) अ०।२०।८। षद्लृ विशरणगत्यवसादनेषु-क्वनिप् दस्य तः। वीरः (पुरुमायः) माया प्रज्ञानाम-निघ०३।९। बहुप्रज्ञः (सहस्वान्) महाबलवान् ॥