Go To Mantra
Viewed 85 times

अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन। मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥

Mantra Audio
Pad Path

अस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्व:ऽसाम् । भरामि । आङ्गूषम् । आस्येन ॥ मंहिष्ठम् । अच्छोक्तिऽभि: । मतोनाम् । सुवृक्तिऽभि: । सूरिम् । ववृधध्यै ३५.३॥

Atharvaveda » Kand:20» Sukta:35» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

सभापति के लक्षणों का उपदेश।

Word-Meaning: - (अस्मै) इस [संसार] के हिते के लिये (इत्) ही (उ) विचारपूर्वक (त्यम्) उस (उपमम्) उपमायोग्य, (स्वर्षाम्) सुख देनेवाली, (आङ्गूषम्) प्राप्तियोग्य स्तुति को (आस्येन) [अपने] मुख से (मतीनाम्) बुद्धिमानों में (अच्छोक्तिभिः) अच्छे वचनोंवाली (सुवृक्तिभिः) सुन्दर ग्रहणयोग्य क्रियाओं के साथ (मंहिष्ठम्) उस अत्यन्त उदार, (सूरिम्) प्रेरक विद्वान् के (वावृधध्यै) बढ़ाने के लिये (भरामि) मैं धारण करता हूँ ॥३॥
Connotation: - जो मनुष्य अपने शुभ लक्षणों से सबमें श्रेष्ठ गुणी विद्वान् हो, उसको आदरपूर्वक सभापति बनावें ॥३॥
Footnote: ३−(अस्मै) (इत्) (उ) म०१। (त्यम्) तम् (उपमम्) दृष्टान्तयोग्यम् (स्वर्षाम्) अ०।२।८। स्वः+षणु दाने-विट्। सुखस्य दातारम् (भरामि) धरामि (आङ्गूषम्) म०२। प्रापणीयं स्तोमम् (मंहिष्ठम्) अ०२०।१।१। दातृतमम् (अच्छोक्तिभिः) श्रेष्ठवचनयुक्ताभिः (मतीनाम्) मेधाविनाम्-निघ०३।१। (सुवृक्तिभिः) म०२। सुष्ठु ग्राह्याभिः क्रियाभिः (सूरिम्) अ०२।११।४। प्रेरकं विद्वांसम् (वावृधध्यै) तुमर्थे सेसेनसे०। पा०३।४।९। वृधु वृद्धौ-कध्यैप्रत्ययः, अन्तर्गतण्यर्थः, कित्वाद् गुणाभावः, द्विर्भावश्छान्दसः। वर्धयितुम्। स्तोतुम् ॥