Go To Mantra
Viewed 85 times

अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑। गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥

Mantra Audio
Pad Path

अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्र: ॥ गा: । न । व्राणा: । अवनी: । अमुञ्चत् । अभि। श्रव: । दावने । सऽचेता ॥३५.१०॥

Atharvaveda » Kand:20» Sukta:35» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

सभापति के लक्षणों का उपदेश।

Word-Meaning: - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले सेनापति] ने (अस्य) इस [परमेश्वर] के (इत् एव) ही (शवसा) बल से (शुषन्तम्) सुखानेवाले (वृत्रम्) वैरी को (वज्रेण) वज्र [बिजुली आदि शस्त्र] द्वारा (वि वृश्चत्) छेद डाला। और (श्रवः अभि) कीर्ति के निमित्त (दावने) सुख दान के लिये (सचेताः) चित्तवाला होकर (व्राणाः) घिरी हुई (अवनीः) रक्षा योग्य भूमियों को (गाः न) गौओं के समान (अमुञ्चत्) छुड़ाया ॥१०॥
Connotation: - राजा परमेश्वर का आश्रय लेकर दुःखदायी शत्रुओं का नाश करके प्रजा को कष्ट से छुड़ाकर और कीर्ति पाकर सुख का दान करे, जैसे ग्वाला गौओं को बन्धन से खोलकर सुखी करके वन में चराता हैं ॥१०॥
Footnote: १०−(अस्य) परमेश्वरस्य (इत् एव) (शवसा) बलेन (शुषन्तम्) जुष शोषणे-श्यनि प्राप्ते शः। शुष्यन्तम्। शोषकम् (वि) विविधम् (वृश्चत्) अच्छिनत् (वज्रेण) विद्युदादिशस्त्रेण (वृत्रम्) आचरकं शत्रुम् (इन्द्रः) परमैश्वर्यवान् सेनापतिः (गाः) धेनूः (न) इव (व्राणाः) वृञ् वरणे-कर्मणि शानच्, यको लुक्, गुणाभावे यणादेशः। आवृताः (अवनीः) अर्त्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः। उ०२।१०२। अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु अनि प्रत्ययः। भूमिदेशान् (अमुञ्चत्) अमोचयत् (अभि) अभिलक्ष्य (श्रवः) कीर्तिम् (दावने) आतो मनिन्क्वनिब्वनिपश्च। पा०३।२।७४। ददातेर्वनिप्, अल्लोपाभावश्छान्दसः। सुखदानाय (सचेताः) चेतसा ज्ञानेन सह वर्तमानः ॥