Go To Mantra
Viewed 90 times

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्। यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥

Mantra Audio
Pad Path

य: । पृथिवीम् । व्यथमानाम् । अदृंहत् । य: । पर्वतान् । प्र । कुपितान् । अरम्णात् ॥ य: । अन्तरिक्षम् । विऽममे । वरीय: । य: । द्याम् । अस्तभ्नात् । स: । जनास: । इन्द्र: ॥३३.२॥

Atharvaveda » Kand:20» Sukta:34» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (यः) जिस [परमेश्वर] ने (व्यथमानाम्) चलती हुई (पृथिवीम्) पृथिवी को (अदृंहत्) दृढ़ किया है, (यः) जिसने (प्रकुपितान्) कोप करते हुए (पर्वतान्) मेघों को (अरम्णात्) ठहराया है। (यः) जिसने (वरीयः) अधिक चौड़े (अन्तरिक्षम्) आकाश को (विममे) नाप डाला है, (यः) जिसने (द्याम्) सूर्य को (अस्तभ्नात्) खम्भे समान खड़ा किया है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥२॥
Connotation: - जो परमात्मा सूर्य के आकर्षण से पृथिवी को ठहराता, किरणों से खींचे हुए पानी को बरसाता, और आकाश के बीच सूर्य को खम्भे के समान बनाकर अनेक लोकों को उसके आकर्षण में सब ओर घुमाता है, उस परमेश्वर की उपासना से आत्मबल बढ़ाओ ॥२॥
Footnote: २−(यः) परमेश्वरः (पृथिवीम्) विस्तीर्णां भूमिम् (व्यथमानाम्) चलन्तीम् (अदृंहत्) दृढीकृतवान्। सूर्यस्याकर्षणे धृतवान् (यः) (पर्वतान्) मेघान् (प्रकुपितान्) प्रक्रुद्धान् (अरम्णात्) रमु क्रीडायाम् श्नाप्रत्ययः, अन्तर्गतण्यर्थः। स्थापितवान् सूर्याकर्षणे (यः) (अन्तरिक्षम्) आकाशम् (विममे) माङ् माने-लिट्। विशेषेण मानं कृतवान् (वरीयः) उरुतरम् (यः) (द्याम्) सूर्यमण्डलम् (अस्तभ्नात्) स्तम्भं यथा स्थापितवान्। अन्यद् गतम् ॥