Go To Mantra
Viewed 86 times

यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः। व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

Mantra Audio
Pad Path

य: । सुन्वते । पचते । दुध्र: । आ । चित् । वाजम् । दर्दर्षि । स: । किल । असि । सत्य: ॥ वयम् । ते । इन्द्र । विश्वह । प्रियास: । सुऽवीरास: । विदथम् । आ । वदेम ॥३४.१८॥

Atharvaveda » Kand:20» Sukta:34» Paryayah:0» Mantra:18


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (यः) जो तू (दुध्रः) पूर्ण होकर (चित्) ही (सुन्वते) तत्त्व निचोड़ते हुए और (पचते) परिपक्व करते हुए के लिये (वाजम्) अत्र [वा बल] (आ दर्दर्षि) फाड़कर देता है, (सः) सो तू (किल) निश्चय करके (सत्यः) सच्चा (असि) है। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (वयम्) हम (ते) तेरे (प्रियासः) प्यारे होकर (सुवीरासः) सुन्दर वीरोंवाले (विश्वह) सब दिनों (विदथम्) ज्ञान का (आ) सब ओर (वदेम) उपदेश करें ॥१८॥
Connotation: - परिपूर्ण सत्यस्वरूप परमात्मा तत्त्वदर्शी परिपक्व ज्ञानियों को धनवान् और बलवान् करता है, उसीके गुणों को विचारकर हम उत्तम वीरोंवाले होवें ॥१८॥
Footnote: १८−(यः) परमेश्वरः (सुन्वते) तत्त्वं निष्पादयते (पचते) परिपक्वं कुर्वते (दुध्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। दुह प्रपूरणे-रक्, हस्य धः। पूर्णः सन् (आ) समन्तात् (चित्) अपि (वाजम्) अन्नम्। बलम् (दर्दर्षि) दॄ विदारणे-यङ्लुकि लट्। भृशं विदृणासि। अत्यन्तं ददासि (सः) (किल) निश्चयेन (असि) (सत्यः) यथार्थस्वरूपः (वयम्) (ते) तव (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (विश्वह) अकारलोपो विभक्तेर्लुक् च। विश्वेषु अहःसु दिनेषु (प्रियासः) प्रियाः सन्तः (सुवीरासः) शोभनवीरोपेताः (विदथम्) ज्ञानम् (आ) समन्तात् (वदेम) उपदिशेम ॥