Go To Mantra
Viewed 78 times

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑। तु॒दद॒हिं हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥

Mantra Audio
Pad Path

दिवि । न । केतु: । अधि । धायि । हर्यत: । विव्यचत् । वज्र: । हरित: । न । रंह्या ॥ तुदत् । अहिम् । हरिऽशिप्र: । य: । आयस: । सहस्रऽशोका: । अभवत् । हरिम्ऽभर: ॥३०.४॥

Atharvaveda » Kand:20» Sukta:30» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

बल और पराक्रम का उपदेश।

Word-Meaning: - (न) जैसे (हर्यतः) रमणीक (केतुः) प्रकाश (दिवि) आकाश में (अधि) ऊपर (धायि) रक्खा गया है, (वज्रः) वह वज्रधारी (रंह्या) वेग के साथ (हरितः न) सिंह के समान (विव्यचत्) व्याप गया, और (आयसः) लोहे के बने हुए [अति दृढ़], (हरिशिप्रः) सिंह के समान मुखवाले (यः) जिसने (अहिम्) सर्प [समान शत्रु] को (तुदत्) छेदा है, वह (सहस्रशोकाः) सहस्रों प्रकाशवाला होकर (हरिंभरः) मनुष्यों का पालनेवाला (अभवत्) हुआ है ॥४॥
Connotation: - तेजस्वी न्यायकारी राजा दुष्ट पापियों को शीघ्र दण्ड देकर अनेक प्रकार से प्रजा का पालन करे ॥४॥
Footnote: ४−(दिवि) प्रकाशे (न) यथा (केतुः) प्रज्ञापकः प्रकाशः (अधि) उपरि (धायि) अधायि। निहितो वर्तते (हर्यतः) कमनीयः (विव्यचत्) व्यच व्याजीकरणे भेदे व्याप्तौ-णिचि लुङ्, अडभावः। व्याप्नोत् (वज्रः) अर्शआद्यच्। वज्रवान् (हरितः) सिंहः (न) इव (रंह्या) रंहणेन वेगेन (तुदत्) अतुदत्। हिंसितवान् (अहिम्) आहन्तारं सर्पमिव शत्रुम् (हरिशिप्रः) स्फायितञ्चिवञ्चि०। उ० २।१३। शिञ् निशाने छेदने-रक्, पुक् च। शिप्रे हनूनासिके वा-निरु० ६।१७। हरेः सिंहस्य मुखमिव मुखं यस्य सः (यः) (आयसः) लोहनिर्मितः। अतिदृढः (सहस्रशोकाः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। सहस्र+ई शुचिर् पूतीभावे-असि। सहस्रप्रकाशः (अभवत्) (हरिंभरः), संज्ञायां भृतॄवृजि०। पा० ३।२।४६। हरि+भृञ् भरणे-खच्, मुमागमः। हरयो मनुष्याः निघ० ३।२। मनुष्याणां पोषकः ॥