Go To Mantra
Viewed 84 times

ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥

Mantra Audio
Pad Path

बर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥

Atharvaveda » Kand:20» Sukta:25» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (यत्) जब (बर्हिः) उत्तम आसन (स्वपत्याय) गुणी सन्तान के लिये (वा) विचारपूर्वक (वृज्यते) छोड़ा जाता है, (वा) अथवा (अर्कः) पूजनीय विद्वान् (श्लोकम्) अपनी वाणी को (दिवि) व्यवहार के बीच (आघोषते) कह सुनाता है। और (यत्र) जहाँ (ग्रावा) मेघ [के समान उपकारी], (उक्थ्यः) प्रशंसनीय (कारुः) शिल्पी विद्वान् (वदति) बोलता है, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला पुरुष] (तस्य) इस [सब] के (इत्) ही (अभिपित्वेषु) सङ्ग्रामों में (रण्यति) आनन्द पाता है ॥६॥
Connotation: - जिस स्थान में विद्वान् गुणी सन्तानों का आदर होता है और जहाँ पर बड़े विज्ञानी शिल्पी लोग उत्तम-उत्तम विद्याओं का आविष्कार करते हैं, वहाँ पर सब प्राणियों को सुख मिलता है ॥६॥
Footnote: ६−(बर्हिः) उत्तमासनम् (वा) वेति विचारणार्थे-निरु० १।४। विचारपूर्वकम् (यत्) यदा (स्वपत्याय) गुणिने सन्तानाय (वृज्यते) वृजी वर्जने। त्यज्यते। दीयते (अर्कः) पूजनीयः पण्डितः (वा) अथवा (श्लोकम्) वाणीम् (आघोषते) घुषिर् विशब्दने। उच्चारयति (दिवि) व्यवहारे (ग्रावा) मेघनाम-निघ० १।१०। मेघ इवोपकारी (यत्र) यस्मिन् देशे (वदति) उपदिशति (कारुः) शिल्पकर्ता विद्वान् (उक्थ्यः) प्रशंसनीयः (तस्य) पूर्वोक्तस्य सर्वस्य (इत्) एव (इन्द्रः) परमैश्वर्यवान् पुरुषः (अभिपित्वेषु) जनिदाच्यु०। उ० ४।१०४। पि गतौ-त्वन् प्रत्ययः। अभिप्राप्तिषु। संगमेषु (रण्यति) रमु क्रीडायाम्-छान्दसः श्यन् परस्मैपदं मकारस्य नत्वं च। रमते। आनन्दितो भवति ॥