Go To Mantra

त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॑शि॒कासो॑ अव॒स्यवः॑ ॥

Mantra Audio
Pad Path

त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ॥ कुशिकास: । अवस्यव: ॥२४.९॥

Atharvaveda » Kand:20» Sukta:24» Paryayah:0» Mantra:9


Reads 61 times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के गुणों का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वां प्रत्नम्) तुझ पुराने का (सुतस्य) सिद्ध किये हुए रस के (पीतये) पीने के लिये (कुशिकासः) मिलनेवाले, (अवस्यवः) रक्षा चाहनेवाले हम (हवामहे) बुलाते हैं ॥९॥
Connotation: - मनुष्य अनुभवी पुराने बुद्धिमानों से आदर करके शिक्षा लेवें ॥९॥
Footnote: ९−(त्वाम्) (सुतस्य) संस्कृतस्य रसस्य (पीतये) पानाय (प्रत्नम्) नश्च पुराणे प्रात्। वा० पा० ।४।२। प्र-त्नप्-प्रत्ययः। पुराणम्-निघ० ३।२७। अनुभविपुरुषम् (इन्द्र) (हवामहे) आह्वयामः (कुशिकासः) वृश्चिकृष्योः किकन्। उ० २।४०। कुश संश्लेषणे-किकन्, असुगागमः। कुशिको राजा बभूव क्रोशतेः शब्दकर्मणः क्रंशतेर्वा स्यात् प्रकाशयतिकर्मणः साधु विक्रोशयितार्थानामिति वा-निरु० २।२। संगन्तारो वयम् (अवस्यवः) अ० २०।१४।१। रक्षाकामः ॥