Go To Mantra
Viewed 924 times

ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॑ ते॒ सोमा॑सो वृत्र॒हत्ये॑षु सत्पते। यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥

Mantra Audio
Pad Path

ते । त्वा । मदा: । अमदन् । तानि । वृष्ण्या । ते । सोमास: । वृत्रऽहत्येषु । सत्ऽपते ॥ यत् ।कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हय: ॥२१.६॥

Atharvaveda » Kand:20» Sukta:21» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यों के कर्तव्य का उपदेश।

Word-Meaning: - (सत्पते) हे सत्पुरुषों के रक्षक ! [सेनापति] (ते) उन (मदाः) आनन्द देनेवाले शूरों ने, (तानि) उन (वृष्ण्या) वीरों के योग्य कर्मों ने और (ते) उन (सोमासः) ऐश्वर्यों ने (वृत्रहत्येषु) वैरियों के मारनेवाले संग्रामों में (त्वा) तुझको (अमदन्) प्रसन्न किया है, (यत्) जब (बर्हिष्मते) विज्ञानी (कारवे) कर्मकर्ता के लिये (दश सहस्राणि) दस सहस्र [असंख्य] (वृत्राणि) शत्रुदलों को (अप्रति) बिना रोक (नि बर्हयः) तूने मार डाला है ॥६॥
Connotation: - धार्मिक राजा सज्जनों की रक्षा के लिये दुष्टों का नाश करके आनन्द के साथ वैभव बढ़ावें ॥६॥
Footnote: ६−(ते) प्रसिद्धाः (त्वा) त्वाम् (मदाः) आनन्दयितारः शूराः (अमदन्) हर्षितवन्तः (तानि) प्रसिद्धानि (वृष्ण्या) वृषन्-यत्। शेर्लोपः। वृष्णः इन्द्रस्य वीरस्य योग्यानि कर्माणि (ते) प्रसिद्धाः (सोमासः) ऐश्वर्याणि (वृत्रहत्येषु) वृत्राणां शत्रूणां हत्या हननं येषु तेषु संग्रामेषु (सत्पते) हे सत्पुरुषाणां रक्षक (यत्) यदा (कारवे) कृवापा०। उ० १।१। करोतेः-उण्। कर्मकर्त्रे (दश सहस्राणि) असंख्यातानि (वृत्राणि) शत्रुसैन्यानि (अप्रति) अ० २०।१२।३। यथा तथा, प्रातिकूल्यस्य विघ्नस्य राहित्येन (बर्हिष्मते) विज्ञानवते (नि बर्हयः) बर्ह प्राधान्ये हिंसादिषु च-लङ्, अडभावश्छान्दसः। निबर्हयतिर्बलकर्मा-निघ० २।१९। नितरामवधीः ॥