Go To Mantra
Viewed 81 times

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त्। न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥

Mantra Audio
Pad Path

कृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ॥ न । तत् । ते । अन्य: । अनु । वीर्यम् । शकत् । न । पुराण: । मघऽवन् । न । उत । नूतन: ॥१७.५॥

Atharvaveda » Kand:20» Sukta:17» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (न) जैसे (श्वघ्नी) धन नाश करनेवाला जुआरी (कृतम्) जीते धन को (देवने) जुए में (वि चिनोति) बटोर लेता है, [वैसे ही] (यत्) जब (मघवा) महाधनी [राजा] (सूर्यम्=सूर्यस्य) प्रेरणा करनेवाले [प्रधान] के (संवर्गम्) रोकनेवाले [शत्रु] को (जयत्) जीतता है, (तत्) तब (मघवन्) हे महाधनी ! [राजन्] (अन्यः) कोई दूसरा (ते) तेरे (वीर्यम्) वीरपन को (न) नहीं (अनु शकत्) पा सकता है, (न) न तो (पुराणः) कोई प्राचीन (उत) और (न) न (नूतनः) कोई नवीन जन ॥॥
Connotation: - वीर राजा अनुपम पराक्रम के साथ संग्राम में शत्रुओं को जीतकर प्रजा का पालन करें ॥॥
Footnote: −(कृतम्) द्यूते प्राप्तं धनम् (न) यथा (श्वघ्नी) स्व+हन हिंसागत्योः-घञर्थे कप्रत्ययः। अत इनिठनौ। पा० ।२।११। इनिप्रत्ययः, सकारस्य शः। श्वघ्नी कितवो भवति स्वं पुनराश्रितं भवति-निरु० ।२२। स्वस्य धनस्य नाशकः। कितवः। द्यूतकारकः (वि चिनोति) विविधं संगृह्णाति (देवने) द्यूते (संवर्गम्) वृजी वर्जने-घञ्, कुत्वम्। संवर्जयितारम् (यत्) यदा (मघवा) महाधनी (सूर्यम्) षष्ठ्यर्थे द्वितीया। सूर्यस्य। प्रेरकप्रधानस्य (जयत्) जयति (न) निषेधे (तत्) तदा (ते) तव (अन्यः) इतरः (वीर्यम्) वीरत्वम् (अनु शकत्) अनुकर्त्तुं शक्नोति (न) निषेधे (पुराणः) प्राचीनः (मघवन्) हे महाधनिन् (न) निषेधे (उत) अपि च (नूतनः) आधुनिकः ॥