Go To Mantra
Viewed 106 times

वि॑षू॒वृदिन्द्रो॒ अमु॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते। तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥

Mantra Audio
Pad Path

विषुऽवृत् । इन्द्र: । अमते: । उत । क्षुध: । स: । इत् । राय: । मघऽवा । वस्व: । ईशते ॥ तस्य । इत् । इमे। प्रवणे । सप्त । सिन्धव: । वय: । वर्धन्ति । वृषभस्य । शुष्मिण: ॥१७.३॥

Atharvaveda » Kand:20» Sukta:17» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्रः) इन्द्र [महाप्रतापी राजा] (अमतेः) कंगाल का (उत) और (क्षुधः) भूख का (विषुवृत्) सर्वथा हटानेवाला है, (सः इत्) वही (मघवा) महाधनी (रायः) धन का और (वस्वः) वस्तु का (ईशते) स्वामी है। (तस्य इत्) उसी ही (वृषभस्य) श्रेष्ठ (शुष्मिणः) महाबली के (प्रवणे) सेवनीय लम्बे राज्य में (इमे) यह (सप्त सिन्धवः) बहते हुए सात समुद्ररूप छेद [हमारे दो, कान, दो नथने, दो आँखें और एक मुख अथर्व० १०।२।६] (वयः) अन्न को (वर्धन्ति) बढ़ाते हैं ॥३॥
Connotation: - धार्मिक प्रतापी, धनी राजा की सुनीति से प्रजागण जितेन्द्रिय होकर विद्यावृद्धि करके धनवान् और अन्नवान होवें ॥३॥
Footnote: ३−(विषुवृत्) विषु+वृतु वर्तने-क्विप्। सर्वथा निवर्तयिता (इन्द्रः) परमैश्वर्यवान् (अमतेः) अमेरतिः। उ० ४।९। अम पीडने-अति। दारिद्र्यस्य (क्षुधः) बुभुक्षायाः (सः) (इत्) एव (रायः) धनस्य (मघवा) महाधनी (वस्वः) वसुनः। वस्तुनः (ईशते) छान्दसः शप्। ईष्टे। ईश्वरो भवति (तस्य) (इत्) (इमे) प्रत्यक्षाः (प्रवणे) वन सम्भक्तौ-अच्। सेवनीये। आयते दीर्घे राज्ये (सप्त) सप्तसंख्याकानि शीर्षण्यानि च्छिद्राणि। कर्णाविमौ नासिके चक्षणी मुखम्-अथर्व० १०।२।६ (सिन्धवः) स्यन्दमानानि समुद्ररूपाणि च्छिद्राणि (वयः) अन्नम् (वर्धन्ति) वर्धयन्ति (वृषभस्य) श्रेष्ठस्य (शुष्मिणः) महाबलवतः ॥