Go To Mantra
Viewed 97 times

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय। राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

Mantra Audio
Pad Path

न । घ । त्वद्रिक् । अप । वेति । मे । मन: । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय ॥ राजाऽइव । दस्म । नि । सद: । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥१७.२॥

Atharvaveda » Kand:20» Sukta:17» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (पुरुहूत) हे बहुत प्रकार से बुलाये गये ! (त्वद्रिक्) तेरी ओर गया हुआ (मे) मेरा (मनः) मन (न घ) न कभी (अप वेति) भटकता है, (त्वे) तुझमें (इत्) ही (कामम्) [अपनी] आशा को (शिश्रय) मैंने ठहराया है। (दस्म) हे दर्शनीय ! (राजा इव) राजा के समान (बर्हिषि) उत्तम आसन पर (अधि) अधिकारपूर्वक (नि षदः) तू बैठ, और (अस्मिन्) इस (सोमे) ऐश्वर्य में (ते) तेरा (अवपानम्) निश्चित रक्षा कर्म (सु) सुन्दर रीति से (अस्तु) होवे ॥२॥
Connotation: - प्रजागण पूर्ण राजभक्ति से उचित उपहार देकर धर्मात्मा राजा को प्रसन्न रक्खें ॥२॥
Footnote: २−(न घ) न कदापि (त्वद्रिक्) युष्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा० ६।३।९२। इति सर्वनाम्नः टेः अद्रि इत्यादेशः। अचः। पा० ६।४।१३८। लुप्तनकारस्याञ्चतेर्भस्य अकारस्य लोपः। त्वां गच्छत् (अप वेति) अपगच्छति (मे) मम (मनः) चित्तम् (त्वे) शे इत्यादेशः। त्वयि (इत्) एव (कामम्) आशाम् (पुरुहूत) हे बहुविधाहूत (शिश्रय) श्रिञ् सेवायाम्-लिट्। अहमाश्रितवान् स्थापितवानस्मि (राजा) (इव) (दस्म) इषियुधीन्धिदसि०। उ० ४।१४। दसु उपक्षये, यद्वा, दस दसि दर्शनसन्दशनयोः-मक्। हे दर्शनीय (नि षदः) लेटि रूपम्। निषीद (अधि) अधिकारपूर्वकम् (बर्हिषि) उत्तमासने (अस्मिन्) (सु) सुष्ठु (सोमे) ऐश्वर्ये (अवपानम्) निश्चितरक्षणम् (अस्तु) (ते) तव ॥