Go To Mantra

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन्। रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥

Mantra Audio
Pad Path

अभि । श्यावम् । न । कृशनेभि : । अश्वम् । नक्षत्रेभि: । पितर: । द्याम् । अपिंशन् ॥ रात्र्याम् । तम: । अदधु: । ज्योति: । अहन् । बृहस्पति: । भिनत् । अद्रिम् । विदत् । गा:॥१६.११॥

Atharvaveda » Kand:20» Sukta:16» Paryayah:0» Mantra:11


Reads 61 times

PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के गुणों का उपदेश।

Word-Meaning: - (कृशनेभिः) सुवर्णों से (न) जैसे (श्यावम्) शीघ्रगामी (अश्वम्) घोड़े को, [वैसे ही] (पितरः) पालनेवाले [ईश्वरनियमों] ने (नक्षत्रेभिः) तारों से (द्याम्) आकाश को (अभि) सब ओर से (अपिंशन्) सजाया है। और (रात्र्याम्) रात्रि में (तमः) अन्धकार को और (अहन्) दिन में (ज्योतिः) प्रकाश को (अदधुः) रक्खा है, [उसी प्रकार] (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (अद्रिम्) पहाड़ [के समान भारी अज्ञान] को (भिनत्) तोड़ डाला और (गाः) वेदवाणियों को (विदत्) प्राप्त कराया है ॥११॥
Connotation: - जैसे नक्षत्र, दिन, रात्रि आदि ईश्वर के अटल नियमों पर चलते हैं, विद्वान् जन दृढ़ चित्त से अज्ञान मिटाकर अचल वेदवाणी को फैलावे ॥११॥
Footnote: ११−(अभि) सर्वतः (श्यावम्) अ० ।।८। श्यैङ् गतौ-वप्रत्ययः। शीघ्रगामिनम् (न) यथा (कृशनेभिः) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। कृश तनूकरणे-क्यु। कृशनैः सुवर्णालङ्कारैः-निघ० १।२ (अश्वम्) तुरङ्गम् (नक्षत्रेभिः) तारागणैः (पितरः) पालकाः परमेश्वरनियमाः (द्याम्) आकाशम् (अपिंशन्) पिश अवयवे दीपनायां च-लङ्। अदीपयन्। अलम्-कुर्वन् (रात्र्याम्) निशि (तमः) अन्धकारम् (अदधुः) धारितवन्तः (ज्योतिः) प्रकाशम् (अहन्) अह्नि। दिने (बृहस्पतिः) महाविद्वान् पुरुषः (भिनत्) अभिनत्। विदारितवान् (अद्रिम्) शैलतुल्यदृढज्ञानम् (विदत्) बिद्लृ लाभे-लुङ्। अन्तर्गतण्यर्थः। अविदत्। प्रापितवान् (गाः) वेदवाणीः ॥