Go To Mantra

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः। स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

Mantra Audio
Pad Path

पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभ: । दिव: । रजस: । पृथिव्या: ॥ सहस्रम् । शंसा: । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥१४३.९॥

Atharvaveda » Kand:20» Sukta:143» Paryayah:0» Mantra:9


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

१-७ ९ राजा और मन्त्री के कर्तव्य का उपदेश।

Word-Meaning: - (अश्विना) हे दोनों अश्वी ! [चतुर राजा और मन्त्री] (तत्) वह (वाम्) तुम दोनों का (कृतम्) काम (पनाय्यम्) बड़ाई योग्य है [कि] (पृथिव्याः) पृथिवी के और (रजसः) आकाश के (दिवः) व्यवहार के (वृषभः=वृषभौ) दोनों शासक [हो]। (उत) और (गविष्टौ) विद्या की प्राप्ति में (ये) जो (सहस्रम्) सहस्र (शंसाः) प्रशंसनीय गुण हैं, (तान् सर्वान्) उन सबको (इत्) ही (पिबध्यै) [सोम अर्थात् तत्त्व रस] पीने के लिये (उप) आदर से (यात) तुम सब लोग प्राप्त करो ॥९॥
Connotation: - राजा और मन्त्री विज्ञान द्वारा यान-विमान आदि से पृथिवी और आकाश में मार्ग करें और सब लोग विद्या की वृद्धि से तत्त्व रस प्राप्त करके सुखी होवें ॥९॥
Footnote: यह मन्त्र ऋग्वेद में है-८।७।३। [सायणभाष्य अवशिष्ट बालशिल्य सू० ९। म० ३] ॥ इति नवमोऽनुवाकः ॥ इति षट्त्रिंशः प्रपाठकः ॥ इति विंशं काण्डम् ॥ इत्यथर्ववेदभाष्यं च समाप्तम् ॥ यह शासनकाण्ड नाम बीसवाँ काण्ड पूरा हुआ ॥ और अथर्ववेदसंहिता भी पूरी हुई ॥इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास- दक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये विंशं काण्डं समाप्तम् ॥ओ३म् शान्तिः शान्तिः शान्तिः ॥९−(पनाय्यम्) श्रुदक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६। पन व्यवहारे स्तुतौ च-आय्यप्रत्ययः। स्तुत्यम् (तत्) वक्ष्यमाणम् (अश्विना) म० १। हे चतुरराजामात्यौ (कृतम्) कर्म (वाम्) युवयोः (वृषभः) ऋषिवृषिभ्यां कित्। उ० ३।१२३। वृषु सेचने, वृषप्रजनैश्वर्ययोः+अभच्। सुपां सुलुक्०। पा० ७।१।३९। द्विवचनस्य सुः। वृषभौ। ईश्वरौ। शासकौ (दिवः) दिवु व्यवहारादिषु-डिवि। व्यवहारस्य (रजसः) अन्तरिक्षस्य। आकाशस्य (पृथिव्याः) भूमेः (सहस्रम्) बहुसंख्याकाः (शंसाः) स्तोमाः। स्तुत्यगुणाः (उत) अपि च (ये) (गविष्टौ) इष गतौ, यद्वा यज देवपूजासंगतिकरणदानेषु-क्तिन्। गोर्वाचो विद्याया इष्टौ प्राप्तौ (सर्वान्) (इत्) एव (तान्) शंसान् स्तुत्यगुणान् (उप) पूजायाम् (यात) सांहितिको दीर्घः। प्राप्नुत (पिबध्यै) अथ० २०।८।३। पातुम्। सोमस्य तत्त्वरसस्य पानं कर्तुम् ॥