Go To Mantra
Viewed 87 times

नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे। नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ढासो॑ अग्मन् ॥

Mantra Audio
Pad Path

नु । न: । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ॥ नर: । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमोल्हास: । अग्मन् ॥१४३.६॥

Atharvaveda » Kand:20» Sukta:143» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

१-७ ९ राजा और मन्त्री के कर्तव्य का उपदेश।

Word-Meaning: - (दस्रा) हे दर्शनयोग्य (अश्विना) दोनों अश्वी ! [चतुर राजा और मन्त्री] (नः) हमारे लिये [अर्थात्] (उभयेषु) दोनों राजजन और प्रजाजनवाले (अस्मे) हम लोगों में (पुरुवीरम्) बहुत वीरों के प्राप्त करानेवाले (बृहन्तम्) बड़े (रयिम्) धन को (नु) शीघ्र (मिमाथाम्) नापो [दो]। (यत्) क्योंकि (नरः) नरों [नेता लोगों] ने (वाम्) तुम दोनों के लिये (स्तोमम्) प्रशंसा की (आवन्) रक्षा की है, और (आजमीढासः) उन घृत आदि पदार्थों और सुवर्ण आदि धनवालों ने (सधस्तुतिम्) परस्पर कीर्ति (अग्मन्) पाई है ॥६॥
Connotation: - राजा और मन्त्री राजजन और प्रजाजनों का सत्कार करके परस्पर कीर्ति बढ़ावें ॥६॥
Footnote: ६−(नु) सद्यः (नः) अस्मभ्यम् (रयिम्) धनम् (पुरुवीरम्) बहवो वीरा यस्मात्तम् (बृहन्तम्) महान्तम् (दस्रा) अथ० ७।७३।२। दस दर्शने-रक्। दर्शनीयौ-निरु० ६।२६। (मिमाथाम्) माङ् माने लोट्। परिमितं कुरुतम्। दत्तम् (उभयेषु) द्वित्वविशिष्टेषु। राजप्रजाजनयुक्तेषु (अस्मे) अस्मासु (नरः) नेतारः (यत्) यतः (वाम्) युवाभ्याम् (अश्विना) म० १। हे चतुरराजामात्यौ (स्तोमम्) प्रशंसाम् (आवन्) अथ० ४।२।६। अव रक्षणगत्यादिषु-लङ्। अरक्षन् (सधस्तुतिम्) सध=सह। परस्परकीर्तिम् (आजमीढासः) आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-घञर्थे क+मिह सेचने-क्त। आजम् आज्यं घृतम्। मीढं धनम्-निघ० २।७। घृतादिपदार्थः सुवर्णादिधनं च येषां ते तथाभूताः (अग्मन्) अगमन्। प्राप्नुवन् ॥