Viewed 85 times
यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑। अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥
Pad Path
यत् । नासत्या । भुरण्यथ: । यत् । वा । देवा । भिषज्यथ: ॥ अयम् । वाम् । वत्स: । मतिऽभि: । न । विन्धते । हविष्मन्तम् । हि । गच्छथ: ॥१४०.१॥
Atharvaveda » Kand:20» Sukta:140» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
दिन और रात्रि के उत्तम प्रयोग का उपदेश।
Word-Meaning: - (नासत्या) हे असत्य न रखनेवाले दोनो ! [दिन-राति] (यत्) क्योंकि (भुरण्यथः) तुम पोषण करते हो, (वा) और, (देवा) हे व्यवहारकुशल दोनो ! (यत्) क्योंकि (भिषज्यथः) तुम औषध करते हो। (अयम्) यह (वत्सः) बोलनेवाला (वाम्) तुम दोनों को (मतिभिः) अपनी बुद्धियों से (न) नहीं (विन्धते) पाता है, (हविष्मन्तम्) भक्ति रखनेवाले को (हि) ही (गच्छथः) तुम दोनों मिलते हो ॥१॥
Connotation: - मनुष्य दिन राति का सुन्दर प्रयोग करके पुष्ट, स्वस्थ, विद्वान् होकर आनन्द पावें ॥१॥
Footnote: यह सूक्त ऋग्वेद में है-८।९।६-१० ॥ १−(यत्) यतः (नासत्या) नास्ति असत्यं ययोस्तौ। नभ्राण्नपान्नवेदानासत्या०। पा० ६।३।७। इति नञः प्रकृतिभावः। विभक्तेराकारः। नासत्यौ वाश्विनौ, सत्यावेव नासत्यावित्यौर्णवाभः, सत्यस्य प्रणेतारावित्याग्रायणः, नासिकाप्रभवौ बभूवतुरिति वा। निरु० ६।१३। नासिकाप्रभवौ प्राणापानावित्यर्थः। हे असत्यरहितौ। सदा सत्यस्वभावौ। अश्विनौ (भुरण्यथः) भुरण धारणापोषणयोः कण्ड्वादिः। सर्वं पोषयथः (यत्) (वा) च (देवा) छान्दसः सांहितिको ह्रस्वः। व्यवहारकुशलौ (भिषज्यथः) भिषज चिकित्सायां कण्ड्वादिः। भैषज्यं कुरुथः (अयम्) (वाम्) युवाम् (वत्सः) अथ० २०।१३८।१। वदतेः-सप्रत्ययः। कथयिता (मतिभिः) बुद्धिभिः (न) निषेधे (विन्धते) दस्य धः। विन्दते लभते (हविष्मन्तम्) भक्तिमन्तम् (हि) एव (गच्छथ) प्राप्नुथः ॥
