Go To Mantra
Viewed 91 times

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो अंशु॒मत्याः॑। नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

Mantra Audio
Pad Path

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्य: । अंशुऽमत्या: ॥ नभ: । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । व: । वृषण: । युध्यत । आजौ ॥१३७.८॥

Atharvaveda » Kand:20» Sukta:137» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (द्रप्सम्) घमण्डी को (अंशुमत्याः) विभागवाली [सीमावाली] (नद्यः) नदी के (उपह्वरे) समीप में (विषुणे) विरुद्ध आचरण [अन्याय] के बीच में (चरन्तम्) विचरते हुए, (नभः) आकाश से (अवतस्थिवांसम्) उतरे हुए (कृष्णम् न) कौवे के समान (अपश्यम्) मैंने देखा है, (वृषणः) हे ऐश्वर्यवाले वीरो ! (वः) तुमको (इष्यामि) प्रेरणा करता हूँ, (आजौ) संग्राम में (युध्यत) युद्ध करो ॥८॥
Connotation: - राजा लुटेरे शत्रु को सीमा पर आते देखकर अपने वीरों को भेजकर उसे रोक दे ॥८॥
Footnote: ८−(द्रप्सम्) म० ७। गर्ववन्तम् (अपश्यम्) अदर्शम् (विषुणे) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।। विष विप्रयोगे-उनन् कित्। विषुणस्य विषमस्य-निरु० ४।१९। विरुद्धाचरणे। अन्याये (चरन्तम्) विचरन्तम् (उपह्वरे) अथ० २०।२२।९। समीपे (नद्यः) नद्याः (अंशुमत्याः) म० ७। विभागवत्याः। सीमायुक्तायाः (नभः) विभक्तेर्लुक्। नभसः। आकाशात् (न) यथा (कृष्णम्) म० ७। काकम् (अवतस्थिवांसम्) अवस्थितम् (इष्यामि) इष गतौ। प्रेरयामि (वः) युष्मान् (वृषणाः) अथ० ११।१।२। हे ऐश्वर्यवन्तः। वीराः (युध्यत) संप्रहरत (आजौ) अ० २०।१६।२। संग्रामे ॥