Go To Mantra

नाहमि॒न्द्राणि॑ रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते। यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

Mantra Audio
Pad Path

न। अहम् । इन्द्राणि । ररण । सख्यु: । वृषाकपे: । ऋते ॥ यस्य । इदम् । अप्यस् । हवि: । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१२॥

Atharvaveda » Kand:20» Sukta:126» Paryayah:0» Mantra:12


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

गृहस्थ के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्राणि) हे इन्द्राणी ! [इन्द्र, बड़े ऐश्वर्यवान् मनुष्य की विभूति] (सख्युः) सखा (वृषाकपेः) वृषाकपि [बलवान् चेष्टा करानेवाले जीवात्मा] के (ऋते) बिना (अहम्) मैं [शरीरधारी] (न) नहीं (रारण) चल सकता, (यस्य) जिस [वृषाकपि, जीवत्मा] का (इदम्) यह (अप्यम्) प्रजाओं का हितकारी (प्रियम्) प्यारा (हविः) हवि [देने-लेने योग्य, घृत जल आदि पदार्थ] (देवेषु) विद्वानों में (गच्छति) पहुँचता है, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥१२॥
Connotation: - मनुष्य अपनी शक्ति को अपने मित्र जीवात्मा के साथ दृढ़ रखकर स्वस्थ रह, और सब प्राणियों से उत्तम होकर मोक्ष सुख पावे ॥१२॥
Footnote: १२−(न) निषेधे (अहम्) शरीरी जीवः (इन्द्राणि) म० ११। हे परमैश्वर्यवतः पुरुषस्य विभूते (रारण) रण गतौ शब्दे च-लडर्थे लिट्। गच्छामि (सख्युः) सखिभूतात् (वृषाकपेः) म० १। बलवतश्चेष्टयितुर्जीवात् (ऋते) विना (यस्य) वृषाकपेः (इदम्) दृश्यमानम् (अप्यम्) अपां प्रजानां हितम् (हविः) दातव्यग्राह्यं घृतजलादिकम् (प्रियम्) प्रीतिकरम् (देवेषु) विद्वत्सु (गच्छति) प्राप्यते। अन्यत् सिद्धम् ॥