Go To Mantra
Viewed 80 times

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥

Mantra Audio
Pad Path

तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥

Atharvaveda » Kand:20» Sukta:123» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सूर्य के काम का उपदेश।

Word-Meaning: - (तत्) उस (अनन्तम्) अनन्त [ब्रह्म] के द्वारा (द्योः) प्रकाश के (उपस्थे) गोद में (मित्रस्य) प्राण वायु और (वरुणस्य) उदान वायु के (अभिचक्षे) सब ओर देखने के लिये (सूर्यः) प्रेरणा करनेवाला सूर्यलोक (रूपम्) रूप को (कृणुते) बनाता है, (अस्य) इस [सूर्य] के (अन्यत्) एक (रुशत्) प्रकाश और (अन्यत्) दूसरे (कृष्णम्) आकर्षण (पाजः) बल को (हरितः) दिशाएँ (सम्) मिलकर (भरन्ति) धारण करती हैं ॥२॥
Connotation: - परमेश्वर के नियम से सूर्यलोक अपने प्रकाश से वायु में नीचे ऊपर जाने का बल उत्पन्न करके पृथिवी आदि लोकों को सब दिशाओं में आकर्षण में रखता है ॥२॥
Footnote: २−(तत्) तेन (मित्रस्य) प्राणस्य (वरुणस्य) उदानस्य (अभिचक्षे) चक्षिङ् दर्शने-क्विप्। संमुखदर्शनाय (सूर्यः) प्रेरकः सविता (रूपम्) चक्षुर्ग्राह्यं गुणम् (कृणुते) करोति (द्योः) प्रकाशस्य (उपस्थे) उपस्थाने मध्ये (अनन्तम्) अन्तरहितेन ब्रह्मणा (अन्यत्) एकम् (रुशत्) रुश हिंसायाम्-शतृ-रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः-निरु० २।२०। ज्वलितवर्णम् दीप्यमानम् (अस्य) सूर्यस्य (पाजः) बलम् (कृष्णम्) आकर्षणम् (अन्यत्) द्वितीयम् (हरितः) दिशः (सम्) एकीभूय (भरन्ति) धरन्ति ॥