Go To Mantra
Viewed 74 times

तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥

Mantra Audio
Pad Path

तुरण्यव: । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रास: । अर्कम् । आनृचु: ॥ अस्मे इति । रयि: । पप्रथे । वृष्ण्यम् । शव: । अस्मे इति । सुवानास: । इन्दव: ॥११९.२॥

Atharvaveda » Kand:20» Sukta:119» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की स्तुति का उपदेश।

Word-Meaning: - (तुरण्यवः) फुरतीले (विप्रासः) बुद्धिमानों ने (मधुमन्तम्) मधु [वेदविद्या] वाले (घृतश्चुतम्) प्रकाश के बरसानेवाले (अर्कम्) पूजनीय परमात्मा को (आनृचुः) पूजा है। (अस्मे) हमारे लिये (रयिः) धन, और (वृष्ण्यम्) वीर के योग्य (शवः) बल (पप्रथे) फैल रहा है, (अस्मे) हमारे लिये (स्तुवानासः) उत्पन्न होते हुए (इन्दवः) ऐश्वर्य हैं ॥२॥
Connotation: - मनुष्य सर्वपूजनीय परमात्मा की महिमा विचारकर धनवान्, बलवान् और ऐश्वर्यवान् होवें ॥२॥
Footnote: यह मन्त्र ऋग्वेद में है-८।१।१० [सायणभाष्य, अवशिष्ट, बालखिल्य सू० ३ म० १०] सामवेद उ० ७।३।१९ ॥ २−(तुरण्यवः) पॄभिदिव्यधि०। उ० १।२३। त्वरणं त्वरायाम्, कण्ड्वादिः-कुप्रत्ययः। वेगशीलाः (मधुमन्तम्) वेदज्ञानवन्तम् (घृतश्चुतम्) अ० १०।६।६। श्चुतिर् क्षरणे-क्विप्। श्चोततिर्गतिकर्मा-निघ० २।१४। प्रकाशवर्षकम् (विप्रासः) मेधाविनः (अर्कम्) पूजनीयं परमात्मानम् (आनृचुः) अ० १२–।१।३९। पूजितवन्तः (अस्मे) अस्मभ्यम् (रयिः) धनम् (पप्रथे) विस्तृतं वर्तते (वृष्ण्यम्) वृष्णे बलवते हितम् (शवः) बलम् (अस्मे) अस्मभ्यम्। अन्यद् गतम्-अ० २०।११८।४ ॥