Go To Mantra

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे। ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

Mantra Audio
Pad Path

अच्छ । हि । त्वा । सहस: । सूनो इति । अङ्गिर: । स्रुच: । चरन्ति । अध्वरे ॥ ऊर्ज: । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०३.३॥

Atharvaveda » Kand:20» Sukta:103» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (सहसः सूनो) हे बल के पहुँचानेवाले ! (अङ्गिरः) हे ज्ञानी परमेश्वर ! (स्रुचः) चलनेवाली प्रजाएँ। (अध्वरे) बिना हिंसावाले व्यवहार में (त्वा) तुझको (हि) ही (अच्छ) अच्छे प्रकार (चरन्ति) प्राप्त होती हैं। (ऊर्जः) बल के (नपातम्) न गिरानेवाले [रक्षक] (यज्ञेषु) यज्ञों [संयोग-वियोग व्यवहारों] में (पूर्व्यम्) पुराने (अग्निम्) अग्नि [प्रकाशस्वरूप परमेश्वर] से (घृतकेशम्) जल और प्रकाश को (ईमहे) हम माँगते हैं ॥३॥
Connotation: - मनुष्यों को चाहिये कि परमेश्वर के बनाये पदार्थों से उपकार लेकर उन्नति करें ॥३॥
Footnote: ३−(अच्छ) सुष्ठु प्रकारेण (हि) एव (त्वा) (सहसः) बलस्य (सूनो) प्रेरक (अङ्गिरः) हे ज्ञानिन् परमेश्वर। (स्रुचः) चिक् च। उ० २।६२। स्रु गतौ-क्विप् चिगागमः। गतिशीलाः प्रजाः (चरन्ति) गच्छन्ति। प्राप्नुवन्ति (अध्वरे) हिंसारहिते व्यवहारे (ऊर्जः) बलस्य (नपातम्) नपातयितारम्। रक्षकम् (घृतकेशम्) घृतं जलं केशं प्रकाशं च (ईमहे) याचामहे (अग्निम्) प्रकाशस्वरूपं परमेश्वरम् (यज्ञेषु) संयोगवियोगव्यवहारेषु (पूर्व्यम्) पुरातनम् ॥