Go To Mantra
Viewed 121 times

आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्। अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ॥

Mantra Audio
Pad Path

आ । अगात् । उत् । अगात्। अयम् । जीवानाम् । व्रातम् । अपि । अगात् । अभूत् । ऊं इति । पुत्राणाम् । पिता । नृणाम् । च । भगवत्ऽतम: ॥९.२॥

Atharvaveda » Kand:2» Sukta:9» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य अपने आप को ऊँचा करे।

Word-Meaning: - (अयम्) यह [प्राणी] (आ+अगात्) आया है, (उत् अगात्) ऊपर आया है, (जीवानाम्) जीवितों [पुरुषार्थियों] के (व्रातम्) समूह में (अपि) भी (अगात्) प्राप्त हुआ है। वह (पुत्राणाम्) पुत्रों का (पिता) पिता (च) और (नृणाम्) मनुष्यों में (भगवत्तमः) अत्यन्त ऐश्वर्यवान् (उ) अवश्य (अभूत्) हुआ है ॥२॥
Connotation: - पुरुषार्थी मनुष्य ही जीवित होते हैं, इससे मनुष्य संसार में जन्म पाकर ब्रह्मचर्यसेवन से विद्या ग्रहण करें और पुरुषार्थियों के समान पुरुषार्थी होकर पुत्रादि सब प्रजा का पालन-पोषण करके महाप्रतापी और यशस्वी होवें ॥२॥
Footnote: २–आ+अगात् इण् गतौ–लुङ्। आगतवान्। उत्+अगात्। उदस्थात्। संचारक्षमोऽभूत्। जीवानाम्। जीवितानां पुरुषार्थिनाम्। व्रातम्। भृमृदृशियजि०। उ० ३।११०। इति वृञ् वरणे–अतच् पृषोदरादिः। यद्वा, व्रतं कर्म–निघ० २।१। तस्येदम्। पा० ४।३।१२०। इति व्रत–अण्। व्राताः, मनुष्याः–निघ० २।३। समूहम्। पुत्राणाम्। अ० १।११।५। सुतानाम्। सन्तानानाम्। नृणाम्। नयतीति ना। नयतेर्डिच्च। उ० २।१००। इति णीञ् प्रापणे–ऋ प्रत्ययः, स च डित्। नृ च। पा० ६।४।६। इति नामि दीर्घाभावो विकल्पत्वात्। नेतॄणाम्। पुरुषाणाम्। भगवत्तमः। अतिशायने तमबिष्ठनौ। पा० ५।३।५५। इति भगवत्+तमप्। अतिशयेन भगवान् ऐश्वर्यवान् ॥