Go To Mantra
Viewed 81 times

इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥

Mantra Audio
Pad Path

इन्द्र: । तुराषाट् । मित्र: । वृत्रम् । य: । जघान । यती: । न । बिभेद । वलम् । भृगु: । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥

Atharvaveda » Kand:2» Sukta:5» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य सदैव उन्नति का उपाय करता रहे।

Word-Meaning: - (यतीः) यति [यत्नशील] पुरुष के (न) समान (यः) जिस (तुराषाट्) शीघ्र जीतनेवाले, (मित्रः) सबके प्रेरक (इन्द्रः) प्रतापी राजा ने (वृत्रम्) अन्धकार वा डाकू को (जघान) नाश किया था। (भृगुः) ज्ञान में परिपक्व ऋषि के (न) सदृश उसने (वलम्) हिंसक दैत्य को (बिभेद) तोड़-फोड़ डाला और (सोमस्य) अपने ऐश्वर्य [ठाट] के (मदे) मद में (शत्रून्) शत्रुओं को (ससहे) हराया था ॥३॥
Connotation: - महाप्रतापी, राजा बड़े-बड़े यत्नवाले और बुद्धिनिपुण वीरों का अनुकरण करके विरोधी शत्रुओं और अज्ञान का नाश करके प्रजा को आनन्द देते और आप आनन्द पाते हैं ॥३॥ (यतीः) पद के स्थान में सामवेद में उपरोक्त पते पर [यतिः] पद है ॥
Footnote: ३–तुराषाट्। तुतोर्त्ति वेगेन गच्छतीति तुरः, वेगवान्। तुर वेगे–क। अथवा, घञर्थे भावे कः। वेगः। तुरं वेगवन्तं शत्रुं वेगेन सहते अभिभवतीति तुराषाट्। तुर+षह अभिभवे, णिच्–क्विप्। सहेः साडः सः। पा० ८।३।५६। इति षत्वम्। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति पूर्वपदस्य दीर्घः। शीघ्रं शत्रूणामभिभविता। मित्रः। अ० १।३।२। स्नेहवान्। अन्धकारस्य क्षेपको नाशकः। वृत्रम्। अ० १।२१।१। वृतु वर्त्तने–रक्। यद्वा। वृञ्–क्त उ० ४।१६४। तत् को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः–निरु० २।१६। त्वाष्ट्रः=त्वष्टुः सूर्याज्जातः। अन्धकारम्। शत्रुम्। जघान। हतवान्। यतीः। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१५८। इति यत प्रयत्ने–ई प्रत्ययः। प्रयत्नवान्। तापसः। यतिः बिभेद। भिन्नवान्। बलम्। बल दाने वधे जीवने च–अच्। हिंसकं दैत्यम्। भृगुः। तपसा भृज्यते। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। इति भ्रस्ज पाके–कु। न्यङ्क्वादित्वात् कुत्वं च। परिपक्वः। ज्ञानपरिपक्वः। ऋषिः। मुनिः। ससहे। षह अभिभवे–लिट्। अभिभूतवान् जितवान् शत्रून्। रुशातिभ्यां क्रुन्। उ० ४।१०३। इति क्रुन्। शति सौत्रो धातुर्हिंसार्थः–इति सायणः, ऋ० १।५।४। इति शत शाते=पतने। पातने–क्रुन्। नित्त्वादाद्युदात्तः। शातकान्, निपातकान्। रिपून्। सोमस्य। अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। इति षु प्रसवैश्वर्ययोः–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। ऐश्वर्यस्य ॥