Go To Mantra
Viewed 121 times

श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्। अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥

Mantra Audio
Pad Path

शण: । च । मा । जङ्गिड: । च । विस्कन्धात् । अभि । रक्षताम् । अरण्यात् । अन्य:। आऽभृत: । कृष्या: । अन्य: । रसेभ्य: ॥४.५॥

Atharvaveda » Kand:2» Sukta:4» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

Word-Meaning: - (च) निश्चय करके (शणः) आत्मदान वा उद्योग, (च) और (जङ्गिडः) रोगभक्षक परमेश्वर वा औषध दोनों, (मा) मुझको (विष्कन्धात्) विघ्न से (अभि) सर्वथा (रक्षताम्) बचावें। (अन्यः) एक (अरण्यात्) तप के साधन वा विद्याभ्यास से और (अन्यः) दूसरा (कृष्याः) कर्षण अर्थात् खोजने से (रसेभ्यः) रसों अर्थात् पराक्रमों वा आनन्दों के लिये (आभृतः) लाया जाता है ॥५॥
Connotation: - आत्मदानी, उद्योगी, पथसेवी और परमेश्वर के विश्वासी पुरुष अपनी और सबकी रक्षा कर सकते हैं। वही योगीजन तपश्चर्या, विद्याभ्यास और खोज करने से आत्मदान [ध्यानशक्ति] और परमेश्वर में श्रद्धा प्राप्त करके अनेक सामर्थ्य और आनन्द का अनुभव करते हैं ॥५॥
Footnote: ५–शणः। शण दाने, गतौ–पचाद्यच्। दानम्। आत्मसमर्पणम्। गतिः। उद्योगः। जङ्गिडः। म० १। पापभक्षकः परमेश्वरः। औषधम्। अभि। अभितः, सर्वतः। रक्षताम्। उभौ पालयताम्। अरण्यात्। अर्तेर्निच्च। उ० ३।१०२। इति ऋ गतौ–अन्य प्रत्ययः। ऋच्छन्ति गच्छन्ति तपस्विनो यत्र। यद्वा। अघ्न्यादयश्च। उ० ४।११२। इति नञ्+रम–यत्। अरमणं शरीरश्रमो यत्र। तपःसाधनात् विद्याभ्यासात्। अन्यः। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–यः। एकतरः। आभृतः। अ० १।६।४। हस्य भः। आहृतः। आनीतः। कृष्याः। इगुपधात् कित्। उ० ४।१२०। इति कृष विलेखने–इन्, स च कित्। कर्षणात्। अनुसन्धानात्। अन्वेषणात्। रसेभ्यः। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति रस आस्वादे, स्नेहे–घ। रस्यते अनुभूयत इति रसः। रसानां वीर्याणां प्राप्तये। अथवा। आनन्दानामनुभवाय ॥