Go To Mantra
Viewed 88 times

अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥

Mantra Audio
Pad Path

अङ्गेऽअङ्गे । लोम्निऽलोम्नि । य: । ते । पर्वणिऽपर्वणि । यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥३३.७॥

Atharvaveda » Kand:2» Sukta:33» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

शारीरिक विषय में शरीररक्षा।

Word-Meaning: - (यः) जो [क्षयी रोग] (ते) तेरे (अङ्गे-अङ्गे) अङ्ग-अङ्ग में, (लोम्नि–लोम्नि) रोम-रोम में (पर्वणि–पर्वणि) गाँठ-गाँठ में है। (वयम्) हम (ते) तेरे (त्वचस्यम्) त्वचा के और (विष्वञ्चम्) सब अवयवों में व्यापक (यक्ष्मम्) क्षयीरोग को (कश्यपस्य) ज्ञानदृष्टिवाले विद्वान् के (विबर्हेण) विविध उद्यम से (वि वृहामसि) जड़ से उखाड़ते हैं ॥७॥
Connotation: - इस मन्त्र में उपसंहार वा समाप्ति है अर्थात् प्रसिद्ध अवयवों का वर्णन करके अन्य सब अवयवों का कथन है। जिस प्रकार सद्वैद्य निदानपूर्वक रोगी के जोड़-जोड़ में से रोग का नाश करता है, वैसे ही ज्ञानी पुरुष निदिध्यासनपूर्वक आत्मिक दोषों को मिटाकर प्रसन्नचित्त होता है ॥७॥
Footnote: ७–अङ्गे–अङ्गे। अ० १।१२।२। नित्यवीप्सयोः। पा० ८।१।४। इति सर्वत्र द्विर्वचनम्। सर्वावयवेषु। लोम्नि–लोम्नि। नामन्सीमन्व्योमन्रोमन्लोमन्०। उ० ४।१५१। इति लूञ् छेदे–मनिन् प्रत्ययान्तः साधुः। लूयते छिद्यते शरीरं येन। सर्वेषु रोमकूपेषु। पर्वणि–पर्वणि। अ० २।९।१। सर्वेषु शरीरसन्धिषु। त्वचस्यम्। त्वच संवरणे–असुन्, यत्। यचि भम्। पा० १।४।१८। इति रुत्वाभावः। त्वचि भवम्। कश्यपस्य। अ० १।१४।४। सोमरसपानशीलस्य। यद्वा। कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति दृशिर् प्रेक्षे–वुन्। पाघ्राध्मास्थाम्नादाण्दृश्यर्ति०। पा० ७।३।७८। इति छन्दसि अशिति प्रत्ययेऽपि, दृशेः पश्य इत्यादेशः, आद्यन्ताक्षरविपर्य्येण सिद्धिः। कश्यपस्य पश्यकस्य द्रष्टुर्ज्ञानिनः पुरुषस्य। यथा।कश्यपः कस्मात् पश्यको भवतीति निरुक्त्या पश्यतीति पश्यः सर्वज्ञतया सकलं जगद् विजानाति स पश्यः पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं जानात्येवातः पश्यक इति। आद्यन्ताक्षरविपर्ययाद्धि स सिंहः कृतेस्तर्कुरित्यादिवत् कश्यप इति हयवरट् इत्येतस्योपरि महाभाष्यप्रमाणेन पदं सिध्यति–इति श्रीदयानन्दकृतायां ऋग्वेदादिभाष्यभूमिकायाम्, पृष्ठे २९१ तमे। विबर्हेण। वृहि वृद्धौ, शब्दे, वृहू उद्यमे–ल्युट्, उपसर्गस्य दीर्घः। विविधोद्यमेन। विष्वञ्चम्। विष व्याप्तौ–कु+अञ्चु गतौ–क्विन्। नानाङ्गव्यापकम्। अन्यद् गतम् ॥