Go To Mantra
Viewed 88 times

अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥

Mantra Audio
Pad Path

अस्थिऽभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: । यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥३३.६॥

Atharvaveda » Kand:2» Sukta:33» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

शारीरिक विषय में शरीररक्षा।

Word-Meaning: - (ते) तेरे (अस्थिभ्यः) हड्डियों से (मज्जभ्यः) मज्जा धातु [अस्थि के भीतर के रस] से (स्नावभ्यः) पुठ्ठों से और (धमनिभ्यः) नाड़ियों से और (ते) तेरे (पाणिभ्याम्) दोनों हाथों से, (अङ्गुलिभ्यः) अङ्गुलियों से और (नखेभ्यः) नखों से (यक्ष्मम्) क्षयी रोग को (वि वृहामि) मैं जड़ से उखाड़ता हूँ ॥६॥
Connotation: - मनुष्य अपने शरीर के भीतरी धातुओं, नाड़ियों और हाथ आदि बाहिरी अङ्गों को यथायोग्य आहार-विहार से पुष्ट और स्वस्थ रक्खें, जिससे आत्मिक शक्ति सदा बढ़ती रहे ॥६॥
Footnote: ६–अस्थिभ्यः। अ० १।२३।४। असु क्षेपणे–क्थिन्। शरीरस्थ–धातुविशेषेभ्यः। मज्जभ्यः। अ० १।११।४। अस्थिमध्यस्थस्नेहेभ्यः। स्नावभ्यः। स्नामदिपद्यर्त्ति०। उ० ४।१३। इति ष्णा शोधने–वनिप्। वायुवाहिनी नाडीभ्यः। सूक्ष्मशिराभ्यः। धमनिभ्यः। अर्त्तिसृधृधम्यम्य०। उ० २।१०२। इति धम प्रापणे–अनि सौत्रो धातुः। धमतिः, गतिकर्मा निघ० २।१४। यद्वा ध्मा शब्दाग्निसंयोगयोः–अनि। धमति प्रापयति रसादिकमिति धमनिः। स्थूलनाडीभ्यः। पाणिभ्याम्। अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। इति पणङ् व्यवहारे–इण्, आयलुक् च। हस्ताभ्याम्। अङ्गुलिभ्यः। अङ्ग चिह्नयुक्तकरणे–उलिच्। अङ्गुलयः कस्मादग्रगामिन्यो भवन्तीति वाग्रगालिन्यो भवन्तीति वाग्रकारिण्यो भवन्तीति वाङ्कना भवन्तीति वाञ्चना भवन्तीति वापि वाभ्यञ्चनादेव स्युः–निरु० ३।८। हस्तपदप्रसिद्धावयवेभ्यः। नखेभ्यः। नहेर्हलोपश्च। उ० ५।२३। इति णह बन्धने–ख, हस्य लोपः। नह्यति रुधिरादिकम्। अङ्गुलीकण्टकेभ्यः। अन्यद् गतम् ॥