Viewed 91 times
अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ॥
Pad Path
अत्त्रिऽवत् । व: । क्रिमय: । हन्मि । कण्वऽवत् । जमदग्निऽवत् । अगस्त्यस्य । ब्रह्मणा । सम् । पिनष्मि । अहम् । क्रिमीन् ॥३२.३॥
Atharvaveda » Kand:2» Sukta:32» Paryayah:0» Mantra:3
PANDIT KSHEMKARANDAS TRIVEDI
कीड़ों के समान दोषों का नाश करे, इसका उपदेश।
Word-Meaning: - (क्रिमयः) हे कीड़ों ! (वः) तुमको (अत्त्रिवत्) दोषभक्षक, वा गतिशील, मुनि के समान (कण्ववत्) स्तुतियोग्य मेधावी पुरुष के समान, (जमदग्निवत्) आहुति खानेवाले अथवा प्रज्वलित अग्नि के सदृश तेजस्वी पुरुष के समान, (हन्मि) मैं मारता हूँ। (अगस्त्यस्य) कुटिल गति पाप के छेदने में समर्थ परमेश्वर के (ब्रह्मणा) वेदज्ञान से (अहम्) मैं (क्रिमीन्) कीड़ों को (सम् पिनष्मि) पीसे डालता हूँ ॥३॥
Connotation: - मनुष्य को ऋषि, मुनि, धर्मात्माओं के अनुकरण से वेदज्ञान प्राप्त करके पाप का नाश करना चाहिये ॥३॥ मन्त्र ३–५ अथर्ववेद का० ५ सू० २३ मन्त्र १०–१२ में भी हैं ॥
Footnote: ३–अत्त्रिवत्। अदेस्त्रिनिश्च। उ० ४।६७। इति अद भक्षणे अत सातत्यगमने वा–त्रिप्। अत्ति दोषान् भक्षयति नाशयतीति अततीति वा अत्रिः। मुनिः। अथवा। रसान् अत्तीति सूर्यः। तत्सदृशः। वः। युष्मान्। क्रिमयः। हे क्षुद्रजन्तवः। हन्मि। नाशयामि। कण्ववत् अ० २।२५।३। अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे, निमीलने–क्वन्। कणति उपदेशशब्दं करोति, कण्यते स्तूयते वा। निमीलयति परान् वा स्वतेजसा। मेधाविवत्–निघ० ३।१५। जमदग्निवत्। जमु भक्षणे, दीप्तौ च–शतृ+अग्नि–वतुप्। जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा–निरु० ७।२४। जमन् हुतभक्षणशीलः अथवा प्रज्वलितो अग्निरिव तेजो येषां ते जमदग्नयः। तत्सदृशः। अगस्त्यस्य। अग वक्रगतौ–अच् ततः। वसेस्तिः। उ० ४।१८०। इति अग+असु क्षेपणे–भावे ति प्रत्ययः। तत्र साधुः। पा० ४।४। इति यत्। पृषोदरादित्वाद् दीर्घाभावः। अगस्य कुटिलगतेः पापस्य असने उत्पाटने समर्थस्य परमेश्वरस्य। ब्रह्मणा। अ० १।८।४। वेदज्ञानेन। सम्+पिनष्मि। अ० २।३१।१। संचूर्णयामि। अन्यद् गतम् ॥
