Go To Mantra
Viewed 125 times

अन्वा॑न्त्र्यं॒ शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॑वस्क॒वं व्य॑ध्व॒रं क्रिमी॒न्वच॑सा जम्भयामसि ॥

Mantra Audio
Pad Path

अनुऽआन्त्र्यम् । शीर्षण्यम् । अथो इति । पार्ष्टेयम् । क्रिमीन् । अवस्कवम्। विऽअध्वरम् । क्रिमीन् । वचसा । जम्भयामसि ॥३१.४॥

Atharvaveda » Kand:2» Sukta:31» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

छोटे-छोटे दोषों का भी नाश करे।

Word-Meaning: - (अन्वान्त्र्यम्) आँतों में के (शीर्षण्यम्) शिर पर वा शिर में के (अथो=अथ–उ) और भी (पार्ष्टेयम्) पसलियों में के (क्रिमीन्) इन सब कीड़ों को, (अवस्कवम्) नीचे-नीचे रेंगनेवाले [जैसे दद्रु क्रिमि] और (व्यध्वरम्) छेद करनेवाले वा पीड़ा देनेवाले, वा यज्ञ के विरोधी (क्रिमीन्) इन सब कीड़ों को (वचसा) बात मात्र से (जम्भयामसि=०–मः) हम नाश करें ॥४॥
Connotation: - मन्त्र १ और २ के समान है ॥४॥ सायणभाष्य में (पार्ष्टेयम्) के स्थान पर [पार्ष्णेयम्] है ॥
Footnote: ४–अन्वान्त्र्यम्। भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च। उ० ४।१६०। इति अम गतौ, यद्वा, अति बन्धने–ष्ट्रन्, धातोर्वृद्धिश्च। अन्त्यते बध्यते देहोऽनेनेति आन्त्रं देहबन्धको नाडीभेदः। शरीरावयवाच्च। पा० ४।३।५५। इति भवे यत्। अनुक्रमेण आन्त्रेषु भवम्। शीर्षण्यम्। शरीरावयवाच्च पा० ४।३।५५। इति शिरस्–यत्। ये च तद्धिते। पा० ६।१।६१। इति शीर्षन् आदेशः। शिरसि भवम्। पार्ष्टेयम्। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति पृषु सेके–क्तिच्। इति पृष्टिः–अ० २।७।५। ततो ढञ्। आयनेयीनीयियः०। पा० ७।१।२। इति ढस्य एयादेशः। पृष्टिषु पार्श्वावयवेषु–भवम्। अवस्कवम्। अव+स्कुञ् आप्लावनेकूदना–पचाद्यच्। अवाग्गमनस्वभावम्। अन्तरन्तः प्रविश्य वर्त्तमानम्। व्यध्वरम्। उपसर्गादध्वनः। पा० ५।४।८५। इति वि+अध्वन्–अच् प्रत्ययः, प्रादिसमासः। रो मत्वर्थीयः। विरुद्धमार्गयुक्तम्। कुपथगामिनम्। स्थेशभासपिसकसो वरच्। पा० ३।२।१७५। इति व्यध ताडने–वरच्। चितः। पा० ६।१।१६३। इति चिति प्रत्यये अन्त उदात्तः। व्याधम्। ताडकम्। पीडकम्। अथवा। ध्वरति=हन्ति–निघ० ३।१७। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति घ। वि विरोधे+ अध्वरा, अहिंसा। अहिंसाविरोधिनम्। हिंसावर्धकम्। शरीरमांसभक्षकम्। अयं शब्दः सर्वत्रान्तोदात्तः। अन्यद् व्याख्यातं म० २ ॥