Go To Mantra
Viewed 139 times

आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते। तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ॥

Mantra Audio
Pad Path

आत् । अङ्ग । कुवित् । अङ्ग । शतम् । या । भेषजानि । ते । तेषाम् । असि । त्वम् । उत्ऽतमम् । अनास्रावम् । अरोगणम् ॥३.२॥

Atharvaveda » Kand:2» Sukta:3» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

Word-Meaning: - (अङ्ग) हे ! (अङ्ग) हे [ब्रह्म !] (आत्) फिर (कुवित्) अनेक प्रकार से (या=यानि) जो (ते) तेरी [बनायी] (शतम्) सौ [असंख्य] (भेषजानि) भयनिवर्त्तक औषधें हैं, (तेषाम्) उनमें से (त्वम्) तू आप (उत्तमम्) उत्तम गुणवाला, (अनास्रावम्) बड़े क्लेश का हटानेवाला और (अरोगम्) रोग दूर करनेवाला (असि) है ॥२॥
Connotation: - संसार की सब ओषधियों में क्लेशनाशक और रोगनिवर्त्तक शक्ति का देनेवाला वही ओषधियों का ओषधि परब्रह्म है ॥२॥
Footnote: २–आत्। अव्ययम्। पुनः। अनन्तरम्। अङ्ग। अव्ययम्। निपातस्य च। पा० ६।३।१।१३६। इति सांहितिको दीर्घः। इत्युभयत्र दीर्घः। संबोधने। हे। कुवित्। निपातोऽयम्। बहुनाम–निघ० ३।१। बहुधा बहुप्रकारेण। शतम्। दश दशतः परिमाणमस्येति। पङ्क्तिविंशतित्रिंशत्०। पा० ५।१।५९। इति तः। दशाणां शभावश्च निपात्यते। दशगुणिता दश सङ्ख्या। शतं दशदशतः–निरु० ३।१०। बहुनाम–निघ० ३।१। अपरिमितानि। असङ्ख्यातानि। भेषजानि। अ० १।४।४। भिषज् अण्। यद्वा। भेष+जि–ड। औषधानि। उत्तमम्। अ० १।९।२। उत्–तमप्। उत्कृष्टतमम्। अनास्रावम्। अ० १।२।४। अन्+आङ्+स्रु–ण। क्लेशरहितम्। अरोगणम्। रुजो भङ्गे–भावे ल्युट्, छान्दसं कुत्वम्। अरोगणम्। रोगनिवर्तकम् ॥