Go To Mantra

शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥

Mantra Audio
Pad Path

शिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥

Atharvaveda » Kand:2» Sukta:29» Paryayah:0» Mantra:6


Reads 52 times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

Word-Meaning: - [हे जीव !] (शिवाभिः) मङ्गल करनेवाली [विद्याओं वा शक्तियों] से (ते) तेरे (हृदयम्) हृदय को (तर्पयामि) मैं तृप्त करता हूँ, तू (अनमीवः) नीरोग और (सुवर्चाः) उत्तमकान्तिवाला होकर (मोदिषीष्ठाः) हर्ष प्राप्त कर। (सवासिनौ) मिलकर निवास करनेवाले दोनों [स्त्री-पुरुष] (अश्विनोः) माता-पिता के (रूपम्) स्वभाव और (मायाम्) बुद्धि को (परिधाय) सर्वथा धारण करके (एतम्) इस (मन्थम्) रस का (पिबताम्) पान करें ॥६॥
Connotation: - परमेश्वर कहता है कि हे मनुष्य ! तेरे आनन्द के लिये मैंने तुझे अनेक विद्याएँ और शक्तियाँ दी हैं, तुम दोनों स्त्री-पुरुषों ! माता-पितारूप से संसार का उपकार करके इस [मेरे दिये] आनन्दरस को भोगो ॥६॥
Footnote: ६–शिवाभिः। शिव–टाप्। अ० २।६।३। मङ्गलवतीभिर्विद्याभिः शक्तिभिर्वा। (शिवाभिष्टे) युष्मत्तत्ततक्षुष्वन्तःपादम्। पा० ८।३।१०३। इति षत्वम्। ते। तव। हृदयम्। वृह्रोः षुग्दुकौ च। उ० ४।१००। इति हृञ्। कयन् दुक् च। हरति स्वीकरोति विषयानिति। मनः। तर्पयामि। सुखयामि। अनमीवः। इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे–वन्, ईडागमः। रोगरहितः। मोदिषीष्ठाः। मुद हर्षे। आशिषि लिङ्। मोदस्व। हृष्टो भव। सुवर्चाः। सु+वर्च–असुन्। सुतेजस्कः। सवासिनौ। व्रते। पा० ३।२।८०। इति वस निवासे–णिनि। समानस्य सभावः। पुमान् स्त्रिया। पा० ३।२।६७। इत्येकशेषः। समानम् एकत्र निवसन्तौ स्त्रीपुरुषौ। पिबताम्। पीतं कुरुताम्। मन्थम्। मन्थ गाहे–घञ् विलोडनम्। रसम्। एतम्। निर्दिष्टम्। वेदोक्तम्। अश्विनोः। अशूप्रुशिलटि०। उ० १।१५१। अशू व्याप्तौ–क्वन्। अश्वो व्याप्तिः–इनि प्रत्ययः। एकशेषः पूर्ववत्। अश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः–निरु० १२।१। कार्येषु व्याप्तिमतोः, जननीजनकयोः। रूपम्। स्वभावम्। परिधाय। धृत्वा। मायाम्। माछाशसिभ्यो यः। उ० ४।१०९। माङ् माने य, टाप्। बुद्धिम्। प्रज्ञाम्–निघ० ३।९ ॥