Go To Mantra

आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ। जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥

Mantra Audio
Pad Path

आऽशी: । न: । ऊर्जम् । उत । सौप्रजा:ऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ । जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वान: । अन्यान् । अधरान् । सऽपत्नान् ॥२९.३॥

Atharvaveda » Kand:2» Sukta:29» Paryayah:0» Mantra:3


Reads 52 times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य अपनी उन्नति करता रहे, इसका उपदेश।

Word-Meaning: - (नः) हमारे लिये (आशीः) आशीर्वाद [हो], (सचेतसौ) हे समान चित्तवाले [माता-पिता तुम दोनों] ! (ऊर्जम्) अन्न, (सौप्रजास्त्वम्=०–जस्त्वम्) उत्तम प्रजाएँ, (दक्षम्) बल, (उत) और (द्रविणम्) धन (धत्तम्) दान करो ॥ (इन्द्र) हे परम ऐश्वर्यवाले जगदीश्वर (अयम्) यह [जीव] (सहसा) [आपके] बल से (जयम्) जय और (क्षेत्राणि) ऐश्वर्य के कारण खेतों को (कृण्वानः) करता हुआ और (अन्यान्) जीवित [वा भिन्न-भिन्न] (सपत्नान्) विपक्षियों को (अधरान्) नीचे [करता हुआ] [जीवाति=जीता रहे–मं० २ से] ॥३॥
Connotation: - इस मन्त्र में (जीवाति) जीता रहे, इस पद की अनुवृत्ति मं० २ से है। माता-पिता प्रयत्न करें कि उनके पुत्र-पुत्री सब सन्तान, बड़े अन्नवान्, बलवान् और धनवान् होकर, उत्तम गृहस्थी बनें और जितेन्द्रिय होकर अपने दोषों और शत्रुओं का नाश करें ॥३॥
Footnote: ३–आशीः। आङः शासु इच्छायाम्–क्विप्, उपधाया इत्त्वम्। आशीर्वादः। मङ्गलवचनम्। नः। अस्मभ्यम्+अस्तु। ऊर्जम्। ऊर्ज बलप्राणनयोः–क्विप्। ऊर्गित्यन्ननामोर्जयतीति सतः पक्वं सुप्रवृक्णमिति वा–निरु० ३।८। ऊर्जयति प्रबलति बलवन्तं प्राणवन्तं वा करोतीति सा ऊर्क्। अन्नम्। उत। अपि च। सौप्रजास्त्वम्। नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+प्रजा–असिच्। छान्दसौ वृद्धिदीर्घौ। सुप्रजस्त्वम्। शोभनसन्तानत्वम्। दक्षम्। दक्ष वृद्धौ–अच्। पुष्टिम्। दक्षः=बलम्। निघ० २।९। धत्तम्। युवां धारयतम्। स्थापयतम्। द्रविणम्। द्रुदक्षिभ्यामिनन्। उ० २२।५०। इति द्रु गतौ–इनन्। धनम्। निघ० २।१०। सचेतसौ। समानमनसौ। मातापितरौ। क्षेत्राणि। दादिभ्यश्छन्दसि। उ० ४।१७०। इति क्षि क्षयैश्वर्यगतिनिवासेषु–त्रन्। क्षेत्रं क्षियतेर्निवासकर्मणः–निरु० १०।१४। ऐश्वर्याणि। भूमिप्रदेशान्। सहसा। बलेन तव दत्तेन। अयम्। निर्दिष्टः पुरुषः। इन्द्र। हे परमैश्वर्यवन् परमात्मन्। कृण्वानः। कुर्वाणः। उत्पादयन्। अन्यान्। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–य। अनिति जीवतीति अन्यः। जीवितान्। भिन्नान्। अधरान्। न+धृङ्–अच्। अधोगतान्। नीचान्। सपत्नान्। अ० १।९।२। सहपतनशीलान्। शत्रून् ॥