Go To Mantra
Viewed 80 times

इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

Mantra Audio
Pad Path

इमा: । या: । देवी: । प्रऽदिश: । चतस्र: । वातऽपत्नी: । अभि । सूर्य: । विऽचष्टे । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.४॥

Atharvaveda » Kand:2» Sukta:10» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

मुक्ति की प्राप्ति के लिये उपदेश।

Word-Meaning: - (सूर्यः) चलने वा चलानेवाला सूर्यलोक (इमाः) इन (याः) जिन (देवीः) दिव्यगुणवाली (वातपत्नीः) वायुमण्डल से रक्षित (चतस्रः) चारों (प्रदिशः) महादिशाओं को (अभि) सब प्रकार (विचष्टे) देखता है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से.... [मन्त्र २] ॥४॥
Connotation: - जैसे सूर्य अपनी किरणों से आकर्षण करके पृथिवी आदि लोकों को धारण करता और वायुमण्डल पतन हो जाने से उनकी रक्षा करता है, ऐसे ही मनुष्य को अपनी प्रजा का पोषण करके सुखी रहना चाहिये ॥४॥
Footnote: ४–देवीः। अ० १।४।३। देव–ङीप्। द्योतमानाः। दिव्याः। वातपत्नीः। विभाषा सपूर्वस्य। पा० ४।१।३४। इति वातपूर्वस्य पतिशब्दस्य इकारस्य नकारो ङीप् च। वातः पती रक्षको यासां ताः। वायुरक्षिताः सर्वलोकाः। इत्यर्थः। सूर्यः। अ० १।३।५। आकाशे सर्ता सविता प्रेरको वा। आदित्यलोकः। विचष्टे। चक्षिङ् व्यक्तायां वाचि दर्शने च–लट्, अदादित्वात् शपो लुक्। चष्टे, विचष्टे पश्यतिकर्माणौ–निघ० ३।११। विविधं पश्यति। किरणैः प्रकाशयति, आकर्षति धारयति चेत्यर्थः ॥