Go To Mantra
Viewed 79 times

शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

Mantra Audio
Pad Path

शम् । ते । वात: । अन्तरिक्षे । वय: । धात् । शम् । ते । भवन्तु । प्रऽदिश: । चतस्र: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.३॥

Atharvaveda » Kand:2» Sukta:10» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

मुक्ति की प्राप्ति के लिये उपदेश।

Word-Meaning: - (ते) तेरेलिये (अन्तरिक्षे) मध्य में दीखनेवाले आकाश में वर्त्तमान (शम्) सुखदायक (वातः) पवन (वयः) अन्न वा यौवन [शारीरिकबल] को (धात्=धेयात्) पुष्ट करे, (ते) तेरेलिये (चतस्रः) चारों (प्रदिशः) महादिशाएँ (शम्) सुखदायक (भवन्तु) होवें। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से..... [मन्त्र २] ॥३॥
Connotation: - मनुष्य प्रयत्न और परिश्रम करके अपने शरीरस्थ प्राणवायु और देशस्थ वायु और सब स्थानों को यथोचित शुद्ध और स्वस्थ रखकर आनन्द प्राप्त करे ॥३॥ (वयोधात्=वयः धात्) इन दो पदों के स्थान पर संहिता और पदपाठ के विरुद्ध सायणभाष्य में [वयोधाः] एक पद मानकर [वयसां पक्षिणां धाता धारयिता वयसाम् अन्नेन पोषयिता वा वातः] व्याख्या की है ॥
Footnote: ३–वातः। अ० १।११।६। वा सुखाप्तिगतिसेवासु–तन्। पवनः। अन्तरिक्षे। अ० १।३०।३। सर्वमध्ये दृश्यमाने। आकाशे। वयः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति वयङ् गतौ, वी गतौ, यद्वा अज गतौ–असुन् अजतेर्वीभावः। अन्नम्–निघ० २।७। यौवनम्। सामर्थ्यम्। धात्। डुधाञ् धारणपोषणयोः–लेटि विधिलिङि वा छान्दसं रूपम्। धत्तात्। दध्यात्। शम्। सुखकार्यः। प्रदिशः। प्रकृष्टा दिशः प्राच्याद्या महादिशः ॥