Go To Mantra
Viewed 92 times

एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥

Mantra Audio
Pad Path

एनी: । धाना: । हरिणी: । श्येनी: । अस्य । कृष्णा: । धाना: । रोहिणी: । धेनव: । ते । तिलऽवत्सा: ।ऊर्जम् । अस्मै । दुहाना: । विश्वाहा । सन्तु । अनपऽस्फुरन्ती: ॥४.३४॥

Atharvaveda » Kand:18» Sukta:4» Paryayah:0» Mantra:34


PANDIT KSHEMKARANDAS TRIVEDI

गोरक्षा का उपदेश।

Word-Meaning: - [हे मनुष्य !] (अस्य)इस (ते) तेरी (एनीः) चितकबरी, (हरिणीः) पीली, (श्येनीः) धौली, (कृष्णाः) काली, (रोहिणीः) लाल (तिलवत्साः) बड़े-बड़े बछड़ोंवाली, (अनपस्फुरन्तीः) कभी न चलायमानहोनेवाली (धेनवः) दुधेल गौएँ (धानाः) पुष्टिकारक (धानाः) धानियों [सुसंस्कृतअन्नों] को और (ऊर्जम्) बलदायक रस [दूध घी आदि] को (अस्मै) उस तेरे लिये (विश्वाहा) सब दिनों (दुहानाः) देती हुई (सन्तु) होवें ॥३४॥
Connotation: - मनुष्यों को चाहिये किवे प्रीतिसूचक रंग और नामवाली गौओं को सावधानी से पालें, जिस से गौओं के दूध घीआदि द्वारा उत्तम-उत्तम भोजन और खेती आदि के लिये बड़े-बड़े बछड़े करके सदापुष्ट रहें ॥३४॥
Footnote: ३४−(एनीः) कर्बूरवर्णाः (धानाः) पोषयित्रीः (हरिणीः) हरिण्यः।हरितवर्णाः (श्येनीः) श्वेतवर्णाः (अस्य) पुरुषस्य (कृष्णाः) कृष्णवर्णाः (धानाः) सुसंस्कृतान्नानि (रोहिणीः) रोहितवर्णाः रक्ताः (धेनवः) दोग्ध्र्यो गावः (ते) तव (तिलवत्साः) म० ३३। प्रधानशिशूपेताः (ऊर्जम्) बलकरं रसं दुग्धघृतादिकम् (अस्मै) तथाभूताय तुभ्यम् (दुहानाः) प्रयच्छन्त्यः (विश्वाहा) सर्वाणि दिनानि (सन्तु) (अनपस्फुरन्तीः) स्फुर संचलने-शतृ। न कदापि संचलन्त्यः ॥