Go To Mantra

उत्ते॑ स्तभ्नामिपृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम्। ए॒तां स्थूणां॑ पि॒तरो॑धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ॥

Mantra Audio
Pad Path

उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निऽदधत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितर:। धारयन्ति । ते । तत्र । यम: । सदना । ते । कृणोतु ॥३.५२॥

Atharvaveda » Kand:18» Sukta:3» Paryayah:0» Mantra:52


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पितरों और सन्तानों के कर्तव्य का उपदेश।

Word-Meaning: - [हे मनुष्य !] (ते)तेरे लिये (पृथिवीम्) पृथिवी को (उत्) उत्तमता से (स्तभ्नामि) मैं [गृहस्थ]थाँभता हूँ, (त्वत् परि) तेरे सब ओर (इमम्) इस (लोगम्) निवासस्थान को (निदधत्)दृढ़ जमाता हुआ (अहम्) मैं (मो रिषम्) कभी न दुःख पाऊँ। (एताम्) इस (स्थूणाम्)नीव [घर की मूल] को (पितरः) पितर [रक्षक महात्मा लोग] (ते) तेरे लिये (धारयन्ति)धरते हैं, (तत्र) उस [नीव] पर (यमः) संयमी [शिल्पी जन] (ते) तेरे लिये (सदना)घरों को (कृणोतु) बनावे ॥५२॥
Connotation: - सब मनुष्य भूमि कोसुथरी सुडौल बनाकर बड़े लोगों के हाथों से नींव जमवा कर अच्छे-अच्छे शिल्पियोंसे दृढ़ स्थान बनवावें, जिससे रहनेवाले सदा सुखी रहें ॥५२॥
Footnote: ५२−(उत्) उत्तमतया (ते)तुभ्यम् (स्तभ्नामि) ष्टभि गतिप्रतिबन्धे−श्ना। धारयामि। स्थापयामि (पृथिवीम्)भूमिम् (त्वत् परि) तव परितः (इमम्) (लोगम्) लुज लुजि हिंसाबलादाननिकेतनेषु-घञ्।चजोः कु घिण्यतोः। पा० ७।२।५२। इति कुत्वं घिति प्रत्यये। निवासस्थानम् (निदधत्)दृढं धारयन् (अहम्) गृहस्थः (मो रिषम्) मैव हिंसितो भूवम् (एताम्) (स्थूणाम्)रास्नासास्नास्थूणावीणाः। उ० ३।१५। ष्ठा गतिनिवृत्तौ-न प्रत्ययः, आकारस्य ऊइत्यादेशः। तिष्ठति गृहं यस्यां ताम्। गृहमूलम् (पितरः) पालका महात्मानः (धारयन्ति) धरन्ति (ते) तुभ्यम् (तत्र) गृहमूले (यमः) संयमी। शिल्पी (सदना)गृहाणि (ते) तुभ्यम् (कृणोतु) करोतु ॥