Go To Mantra

अप॑श्यं युव॒तिंनी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम्। अ॒न्धेन॒ यत्तम॑सा॒प्रावृ॒तासी॑त्प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम् ॥

Mantra Audio
Pad Path

अपश्यम् । युवतिम् । नीयमानाम् । जीवाम् । मृतेभ्य: । परिऽनीयमानाम् । अन्धेन । यत् । तमसा । प्रावृता । आसीत् । प्राक्त: । अपाचीम् । अनयम् । तत् । एनाम् ॥३.३॥

Atharvaveda » Kand:18» Sukta:3» Paryayah:0» Mantra:3


Reads 68 times

PANDIT KSHEMKARANDAS TRIVEDI

नियोगविधान का उपदेश।

Word-Meaning: - (जीवाम्) जीवती हुई [पुरुषार्थयुक्त] (युवतिम्) युवा स्त्री (नीयमानाम्) ले जायी गयी और (मृतेभ्यः)मरे हुओं से [मृतक वा महारोगियों से] (परिणीयमानाम्) पृथक् ले जायी गयी (अपश्यम्) मैंने देखी है। (यत्) क्योंकि वह (अन्धेन तमसा) गहरे अन्धकार से [सन्तान न होने के शोक से] (प्रावृता) ढकी हुई (आसीत्) थी, (तत्) इसी से (एनाम्) उस (अपाचीम्) अलग पड़ी हुई स्त्री को (प्राक्तः) सामने (अनयम्) मैंलाया हूँ ॥३॥
Connotation: - यदि स्त्री का पति मरगया हो वा महारोगी हो और स्त्री सन्तान के न होने से दुःखित हो, तो बुद्धिमान्लोग उस को धैर्य देकर नियोगविधि से सन्तान उत्पन्न कराके प्रसन्न करें॥३॥
Footnote: ३−(अपश्यम्) अहं दृष्टवानस्मि (युवतिम्) यौवनवतीं स्त्रियम् (नीयमानाम्)प्राप्यमाणाम् (जीवाम्) जीवन्तीम् प्राणवतीम् (मृतेभ्यः) गतप्राणपुरुषेभ्यःसकाशात् (परिणीयमानाम्) पृथक् प्राप्यमाणाम् (अन्धेन) गाढेन (यत्) यस्मात्कारणात् (तमसा) अन्धकारेण सन्तानाभावशोकेन (प्रावृता) अतिशयेन वेष्टिता (आसीत्) (प्राक्तः) आभिमुख्येन (अपाचीम्) अपीच्यमपचितमपगतमपिहितमन्तर्हितं वा-निरु०४।२५। अपगताम्। पृथग् गताम् (अनयम्) आनीतवानस्मि (तत्) तस्मात्कारणात् (एनाम्)युवतिम् ॥