Go To Mantra
Viewed 86 times

आहंपि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॑र्हि॒षदो॒ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त॑ इ॒हाग॑मिष्ठाः ॥

Mantra Audio
Pad Path

आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णो: । बर्हिऽसद: । ये । स्वधया । सुतस्य । भजन्त । पित्व: । ते । इह । आऽगमिष्ठा: ॥१.४५॥

Atharvaveda » Kand:18» Sukta:1» Paryayah:0» Mantra:45


PANDIT KSHEMKARANDAS TRIVEDI

पितरों के सत्कार का उपदेश।

Word-Meaning: - (अहम्) मैंने (विष्णोः) विष्णु [सर्वव्यापक परमात्मा] से (सुविदत्रान्) बड़े ज्ञानी वा बड़ेधनी (पितॄन्) पितरों [पालनेवाले विद्वानों] को (च च) और भी (नपातम्) न गिरनेवाली (विक्रमणम्) विविध प्रवृत्ति को (आ अवित्सि) पाया है। (ये) जिन आप (बर्हिषदः)उत्तम पद पर बैठनेवालों ने (स्वधया) अपनी धारण शक्ति से (सुतस्य) ऐश्वर्ययुक्त (पित्वः) रक्षासाधन अन्न का (भजन्त) सेवन किया है, (ते) वे तुम सब (इह) यहाँ (आगमिष्ठाः) आये हो ॥४५॥
Connotation: - प्रधान पुरुष परमात्माकी कृपा से धर्मात्माओं के साथ कार्यकुशलता को प्राप्त करे और जो बड़े पराक्रमीविद्वान् हों, उनका उचित सत्कार करके प्रजा की रक्षा करे ॥४५॥
Footnote: ४५−(आ) समन्तात् (अहम्) प्रधानजनः (पितॄन्) पालकान् विदुषः (सुविदत्रान्) अ० १।३१।४। सुविदेःकत्रन्। उ० ३।१०८।सु+विद ज्ञाने विद्लृ लाभे च-कत्रन्। उत्तमज्ञानान्। बहुधनान् (अवित्सि) विद्लृ लाभे-लुङ्। लब्धवानस्मि (नपातम्) पातरहितम्। अनश्वरम् (च) (विक्रमणम्) विविधप्रवृत्तिम् (च) अपि (विष्णोः) सर्वव्यापकात् परमेश्वरात् (बर्हिषदः) उत्तमपदस्थाः (ये) पितरः (स्वधया) स्वधारणशक्त्या (सुतस्य)ऐश्वर्ययुक्तस्य (भजन्त) अभजन्त। सेवनं कृतवन्तः (पित्वः) कमिमनिजनि०। उ० १।७३।पा रक्षणे-तु, पिभावः। पितुरित्यन्ननाम पातेर्वा पिबतेर्वा प्यायतेर्वा-निरु०९।२४। रक्षासाधनस्यान्नस्य (ते) तादृशाः पितरः (इह) अत्र (आगमिष्ठाः) लुङिरूपम्। यूयम् आगताःस्थ ॥