Go To Mantra

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी। विश्वे॑ दे॒वाअनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥

Mantra Audio
Pad Path

स्वावृक् । देवस्य । अमृतम् । यदि । गो: । अत: । जातास: । धारयन्ते । उर्वी इति । विश्वे । देवा: । अनु । तत् । ते । यजु: । गु: । दुहे । यत् । एनी । दिव्यम् । घृतम् । वा: ॥१.३२॥

Atharvaveda » Kand:18» Sukta:1» Paryayah:0» Mantra:32


Reads 52 times

PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा के गुणों का उपदेश।

Word-Meaning: - (यदि) जब कि (देवस्य)प्रकाशमय परमेश्वर का (अमृतम्) अमृत [जीवन सामर्थ्य] (गोः) पृथिवी के लिये (स्वावृक्) सहज में पाने योग्य है, (अतः) इसी [जीवन सामर्थ्य] से (जातासः)उत्पन्न हुए प्राणी (उर्वी) पृथिवी पर (धारयन्ते) [अपने को] रखते हैं। हेपरमात्मन् ! (विश्वे) सब (देवाः) विद्वान् लोग (ते) तेरे (तत्) उस (यजुः अनु)पूजनीय कर्म के पीछे (गुः) चलते हैं, (यत्) क्योंकि (एनी) चलनेवाली भूमि (दिव्यम्) श्रेष्ठ (घृतम्) सारयुक्त (वाः) वरणीय उत्तम पदार्थ (दुहे) भरपूरकरती है ॥३२॥
Connotation: - परमेश्वर ने प्राणियोंके पालन के लिये पृथिवी पर प्रकाश, वायु, जल, अन्न आदि अनेक पदार्थ स्वयं पानेयोग्य बनाये हैं, सब विद्वान् लोग परमेश्वर के नियमों को समझ कर संसार में अनेकलाभ उठाते हैं ॥३२॥यह मन्त्र ऋग्वेद में है−१०।१२।३ ॥
Footnote: ३२−(स्वावृक्) सु+आङ्+वृजीवर्जने-क्विप्। सुष्ठु सहजेन आवर्जनीयमाहरणीयं ग्राह्यम् (देवस्य) प्रकाशमयस्यपरमेश्वरस्य (अमृतम्) अमरणम्। जीवनसामर्थ्यम् (यदि) यदा (गोः) चतुर्थ्यां षष्ठी।गवे। भूमये (अतः) अस्माद् अमृतात् (जातासः) उत्पन्नाः प्राणिनः (धारयन्ते)आत्मनं धारयन्ति (उर्वी) सप्तम्यां पूर्वसवर्णदीर्घः। ईदूतौ च सप्तम्यर्थे। पा०१।१।१९। इति प्रगृह्यम्। उर्व्याम्। पृथिव्याम् (विश्वे) सर्वे (देवाः)विद्वांसः (अनु) अनुसृत्य (तत्) (ते) तव (यजुः) अर्त्तिपॄवपियजि०। उ० २।११७।यज पूजायाम्-उसि, नित्। पूजनीयं कर्म (गुः) गच्छन्ति (दुहे) तलोपः। दुग्धे।प्रपूरयति (यत्) यतः (एनी) वीज्याज्वरिभ्यो निः। उ० ४।४८। इण् गतौ-नि। एन्योनद्यः-निघ० १।१३। गमनशीला पृथिवी (दिव्यम्) श्रेष्ठम् (घृतम्) सारयुक्तम् (वाः)वारयतेः क्विप्। वरणीयं द्रव्यम् ॥