Go To Mantra
Viewed 82 times

दे॒वोदे॒वान्प॑रि॒भूरृ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान्। धू॒मके॑तुःस॒मिधा भाऋजीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥

Mantra Audio
Pad Path

देव: । देवान् । परिऽभू: । ऋतेन । वह । न: । हव्यम् । प्रथम: । चिकित्वान् । धूमऽकेतु: । सम्ऽइधा । भा:ऽऋजीक: । मन्द्र: । होता । नित्य: । वाचा । यजीयान् ॥१.३०॥

Atharvaveda » Kand:18» Sukta:1» Paryayah:0» Mantra:30


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा के गुणों का उपदेश।

Word-Meaning: - [हे परमात्मन् !] (देवः) प्रकाशमान, (ऋतेन) सत्य धर्म से (देवान्) गतिमान् लोकों में (परिभूः)व्यापता हुआ, (प्रथमः) पहिले से वर्तमान (चिकित्वान्) [सब] जानता हुआ तू (नः)हमारेलिये (हव्यम्) ग्राह्य पदार्थ (वह) पहुँचा। (समिधा) समिधा [काष्ठ आदि] से (धूमकेतुः) धुएँ के झण्डेवाले [अग्निरूप] तू (भाऋजीकः) बड़े प्रकाशवाला, (मन्द्रः) आनन्ददाता, (होता) दानकर्ता (नित्यः) सदा वर्तमान और (वाचा) वाणीद्वारा (यजीयान्) अति संयोग करनेवाला है ॥३०॥
Connotation: - मनुष्य अनादि अनन्तसर्वस्रष्टा परमात्मा को सर्वव्यापक, सर्वनियन्ता और सर्वज्ञ जानकर पुरुषार्थके साथ ग्राह्य पदार्थों का उपार्जन करें ॥३०॥
Footnote: ३०−(देवः) प्रकाशमानः परमेश्वरः (देवान्) गतिमतो लोकान् (परिभूः) परिभवन्। सर्वतो व्याप्नुवन् (ऋतेन) सत्यधर्मेण (वह) आनय (नः) अस्मान् (हव्यम्) ग्राह्यं पदार्थम् (प्रथमः) आदिमः (चिकित्वान्)सर्वं जानन् (धूमकेतुः) धूमेन जायमानः। धूमध्वजोऽग्निः (समिधा) समिन्धनेन।सन्दीपनसाधनेन काष्ठादिना (भाऋजीकः) ऋजेश्च। उ० ४।२२। भास्+ऋजगतिस्थानार्जनोपार्जनेषु-ईकन्, कित्। भाऋजीकः प्रसिद्धभाः-निरु० ६।४।बहुप्रकाशयुक्तः (मन्द्रः) मोदयिता। आनन्दयिता (होता) दाता (नित्यः) सदावर्तमानः (वाचा) वाण्या (यजीयान्) यष्टृ-ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१५४।तृचो लोपः। अत्यन्तं संयोजकः ॥