Go To Mantra
Viewed 109 times

उ॒शन्ति॑ घा॒ तेअ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य। नि ते॒ मनो॒ मन॑सि धाय्य॒स्मेजन्युः॒ पति॑स्त॒न्वमा वि॑विष्याः ॥

Mantra Audio
Pad Path

उशन्ति । घ । ते । अमृतास: । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मन: । मनसि । धायि । अस्मे इति । जन्यु: । पति: । तन्वम् । आ । विविश्या: ॥१.३॥

Atharvaveda » Kand:18» Sukta:1» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।

Word-Meaning: - (ते) वे (अमृतासः) अमर [यशस्वी] लोग (घ) अवश्य (एतत्) इस प्रकार से (एकस्य) एक [अद्वितीय, अति श्रेष्ठ] (मर्त्यस्य) मनुष्य के (चित्) ही (त्यजसम्) सन्तान की (उशन्ति) कामना करते हैं। (ते मनः) तेरा मन (अस्मे) हमारे (मनसि) मन में (नि धायि) जमाया जावे, और (जन्युः)उत्पन्न करनेवाला (पतिः) पति [होकर] (तन्वम्) [मेरे] शरीर में (आ विविश्याः)प्रवेश कर ॥३॥
Connotation: - स्त्री का वचन है।महात्मा लोग मानते हैं कि अद्वितीय वीर पुरुष का सन्तान अद्वितीय वीर होता है, इसलिये तू श्रेष्ठ होकर मेरे साथ विवाह करके श्रेष्ठ सन्तान उत्पन्न कर ॥३॥
Footnote: ३−(उशन्ति) कामयन्ते (घ) प्रसिद्धौ (ते) प्रसिद्धाः (अमृतासः) अमराः। यशस्विनः (एतत्) अनेन प्रकारेण (एकस्य (अद्वितीयस्य। अतिश्रेष्ठस्य (चित्) एव (त्यजसम्)त्यज हानौ दाने च-असुन्। सन्तानम् (मर्त्यस्य) मनुष्यस्य (नि) निश्चयेन। नियमेन (ते) तव (मनः) चित्तम् (मनसि) चित्ते (धायि) धीयताम् (अस्मे) अस्माकम् (जन्युः)भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। जन जनने-युक्। जनयिता (पतिः) त्वं पतिः सन् (तन्वम्) मम तनूं शरीरम् (आ विविश्याः) विश प्रवेशने-लिङ्, शपः श्लुः। प्रविश ॥