Go To Mantra
Viewed 114 times

यस्ते॑ अग्नेसुम॒तिं मर्तो॒ अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे। इषं॒ दधा॑नो॒ वह॑मानो॒अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥

Mantra Audio
Pad Path

य: । ते । अग्ने । सुऽमतिम् । मर्त: । अख्यत् । सहस: । सूनो इति । अति । स: । प्र । शृण्वे । इषम् । दधान: । वहमान: । अश्वै: । आ । स: । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥१.२४॥

Atharvaveda » Kand:18» Sukta:1» Paryayah:0» Mantra:24


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्त्तव्य का उपदेश।

Word-Meaning: - (अग्ने) हे विद्वान् ! (यः मर्तः) जो मनुष्य (ते) तेरी (सुमतिम्) सुमति को (अख्यत्) बखानता है, (सहसःसूनो) हे बलवान् पुरुष के पुत्र ! (सः) वह (अति) अति (प्र) बड़ाई से (शृण्वे)सुना जाता है [यशस्वी होता है]। और (सः) वह (इषम्) अन्न (दधानः) रखता हुआ, (अश्वैः) घोड़ों से (वहमानः) ले जाता हुआ, (द्युमान्) प्रकाशमान और (अमवान्)पराक्रमी होकर (द्यून्) दिनों को (आ) सब प्रकार (भूषति) सुधारता है ॥२४॥
Connotation: - जो मनुष्य कुलीन बलीविद्वानों की सुमति पर चलता है, वह यशस्वी, धनी और पराक्रमी होकर संसार का उपकारकरता है ॥२४॥
Footnote: २४−(यः) (ते) तव (अग्ने) हे विद्वन् (सुमतिम्) उत्तमबुद्धिम् (मर्तः) मनुष्यः (अख्यत्) लडर्थे लुङ्। कथयति (सहसः) बलवतः पुरुषस्य (सूनो)पुत्र (अति) अत्यन्तम् (सः) (प्र) प्रकर्षेण (शृण्वे) लोपस्त आत्मनेपदेषु। पा०७।१।४१। तलोपः, यणादेशः। शृणुते। श्रूयते। विश्रुतो भवति (इषम्) अन्नम् (दधानः)धारयन् (वहमानः) उह्यमानः (अश्वैः) तुरङ्गैः (आ) समन्तात् (सः) मर्तः (द्युमान्)दीप्तिमान् (अमवान्) बलवान् (भूषति) अलंकरोति (द्यून्) दिनानि-निघ० १।९ ॥