Go To Mantra

अ॒ग्निर्मा॑गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥

Mantra Audio
Pad Path

अग्नि: । मा । गोप्ता । परि । पातु । विश्वत: । उत्ऽयन् । सूर्य: । नुदताम् । मृत्युऽपाशान् । विऽउच्छन्ती: । उषस: । पर्वता: । ध्रुवा: । सहस्रम् । प्राणा: । मयि । आ । यतन्ताम् ॥१.३०॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:30


Reads 52 times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - (गोप्ता) रक्षाकरनेवाला (अग्निः) ज्ञानमय परमेश्वर (विश्वतः) सब ओर से (मा परि पातु) मेरीरक्षा करे, (उद्यन्) उदय होता हुआ (सूर्यः) सर्वप्रेरक परमात्मा (मृत्युपाशान्)मृत्यु के बन्धनों को (नुदताम्) हटावे। (व्युच्छन्तीः) विशेष चमकती हुई (उषसः)प्रभातवेलाएँ, (ध्रुवाः) दृढ़ (पर्वताः) पहाड़ और (प्राणाः) सब प्राण [शारीरिकऔर आत्मिक बल] (सहस्रम्) सहस्र प्रकार से (मयि) मुझ में (आ यतन्ताम्) सब ओर सेयत्न करते रहें ॥३०॥
Connotation: - मनुष्य परमेश्वर काआश्रय लेकर अमर अर्थात् यशस्वी होकर सबकालों को सब ऊँची-नीची अवस्थाओं को औरशारीरिक और आत्मिक बलों को अनुकूल बनावें ॥३०॥ इति प्रथमोनुऽवाकः ॥ इति द्वात्रिंशः प्रपाठकः ॥इति सप्तदशंकाण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासदक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषुलब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये सप्तदशंकाण्डम् समाप्तम् ॥
Footnote: ३०−(अग्निः) ज्ञानमयः परमेश्वरः (मा) माम् (गोप्ता) रक्षकः (परिपातु) परितो रक्षतु (विश्वतः) सर्वतः (उद्यन्) उदयं गच्छन् (सूर्यः)सर्वप्रेरकः परमात्मा (नुदताम्) अपसारयतु (मृत्युपाशान्) मरणबन्धान् (व्युच्छन्तीः) व्युच्छन्त्याः। विशेषप्रकाशयुक्ताः (पर्वताः) शैलाः (ध्रुवाः)दृढाः (सहस्रम्) सहस्रप्रकारेण (प्राणाः) श्वासप्रश्वासाः।शारीरिकात्मिकपराक्रमाः (मयि) पुरुषार्थिनि (आ) समन्तात् (यतन्ताम्) यत्नशीलाभवन्तु ॥