Go To Mantra

त्वं तृ॒तं त्वंपर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्योमन् ॥

Mantra Audio
Pad Path

त्वम् । तृतम् । त्वम् । परि । एषि । उत्सम् । सहस्रऽधारम् । विदथम् । स्व:ऽविदम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१५॥

Atharvaveda » Kand:17» Sukta:1» Paryayah:0» Mantra:15


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु की बढ़ती के लिये उपदेश।

Word-Meaning: - [हे परमेश्वर !] (त्वम्) तू (तृतम्=त्रितम्) तीनों [कालों] के बीच फैले हुए [जगत्] में, (त्वम्) तू (सहस्रधारम्) सहस्रों धाराओंवाले (उत्सम्) स्रोते, [अर्थात्] (स्वर्विदम्) सुख पहुँचानेवाले (विदथम्) विज्ञान समाज में (परि) सब ओर से (एषि)व्यापक है, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६] ॥१५॥
Connotation: - जो परमात्मा सर्वदा सबसंसार में व्यापक रहकर विद्वानों की उन्नति करता है, हम सब उसी की उपासना सेविद्वान् होकर उन्नति करें ॥१५॥
Footnote: १५−(त्वम्) (तृतम्) सम्प्रसारणं छान्दसम्। अ०५।१।१। त्रि+तनु विस्तारे-ड। त्रिषु कालेषु विस्तीर्णं जगत् (त्वम्) (परि) सर्वतः (एषि) व्याप्नोषि (उत्सम्) उन्दिगुधिकुषिभ्यश्च। उ० ३।६८। उन्दी क्लेदने-सप्रत्ययः। जलस्रवणस्थानम् (सहस्रधारम्) बहुधारायुक्तम् (विदथम्) विज्ञानसमाजम् (स्वर्विदम्) सुखस्य लम्भयितारम्। अन्यत् पूर्ववत् ॥