अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
अदब्ध: । दिवि । पृथिव्याम् । उत । असि । न । ते । आपु:। महिमानम् । अन्तरिक्षे । अदब्धेन । ब्रह्मणा । ववृधान: । स: । त्वम् । न: । इन्द्र । दिवि । सन् । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन्॥१.१२॥
PANDIT KSHEMKARANDAS TRIVEDI
आयु की बढ़ती के लिये उपदेश।